Sri Maha Kali Stotram
Sri Maha Kali Stotram
श्री महाकाली स्तोत्रं
श्लोक 1
ध्यानम्
शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदां
हास्ययुक्तां त्रिणेत्राञ्च कपाल कर्त्रिका कराम् ।
मुक्तकेशीं ललज्जिह्वां पिबन्तीं रुधिरं मुहुः
चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशनालयवासिनीम् ॥
स्तोत्रम्
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभाम्
श्लोक 2
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता
॥ 1 ॥
श्लोक 3
अर्थमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा
॥ 2 ॥
श्लोक 4
त्वयैतद्धार्यते विश्वं त्वयैतद्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा
॥ 3 ॥
श्लोक 5
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये
॥ 4 ॥
श्लोक 6
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी
॥ 5 ॥
श्लोक 7
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा
॥ 6 ॥
श्लोक 8
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च
॥ 7 ॥
श्लोक 9
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा
॥ 8 ॥
श्लोक 10
सौम्या सौम्यतराशेषा सौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी
॥ 9 ॥
श्लोक 11
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा
॥ 10 ॥
श्लोक 12
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः
॥ 11 ॥
श्लोक 13
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्
॥ 12 ॥
श्लोक 14
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ
॥ 13 ॥
श्लोक 15
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ
॥ 14 ॥
श्लोक 16
इति श्री महाकाली स्तोत्रम् ।
