Kakaradi Kali Sahasra Namavali
Kakaradi Kali Sahasra Namavali
ककारादि काली सहस्र नामावलि
ॐ क्रीं काल्यै नमः ।
ॐ क्रूं कराल्यै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कमलायै नमः ।
ॐ कलायै नमः ।
ॐ कलावत्यै नमः ।
ॐ कलाढ्यायै नमः ।
ॐ कलापूज्यायै नमः ।
ॐ कलात्मिकायै नमः ।
ॐ कलादृष्टायै नमः ।
ॐ कलापुष्टायै नमः ।
ॐ कलामस्तायै नमः ।
ॐ कलाकरायै नमः ।
ॐ कलाकोटिसमाभासायै नमः ।
ॐ कलाकोटिप्रपूजितायै नमः ।
ॐ कलाकर्मायै नमः ।
ॐ कलाधारायै नमः ।
ॐ कलापारायै नमः ।
ॐ कलागमायै नमः ।
ॐ कलाधारायै नमः । 20
ॐ कमलिन्यै नमः ।
ॐ ककारायै नमः ।
ॐ करुणायै नमः ।
ॐ कव्यै नमः ।
ॐ ककारवर्णसर्वाङ्ग्यै नमः ।
ॐ कलाकोटिप्रभूषितायै नमः ।
ॐ ककारकोटिगुणितायै नमः ।
ॐ ककारकोटिभूषणायै नमः ।
ॐ ककारवर्णहृदयायै नमः ।
ॐ ककारमनुमण्डितायै नमः ।
ॐ ककारवर्णनिलयायै नमः ।
ॐ ककशब्दपरायणायै नमः ।
ॐ ककारवर्णमुकुटायै नमः ।
ॐ ककारवर्णभूषणायै नमः ।
ॐ ककारवर्णरूपायै नमः ।
ॐ काकशब्दपरायणायै नमः ।
ॐ कवीरास्फालनरतायै नमः ।
ॐ कमलाकरपूजितायै नमः ।
ॐ कमलाकरनाथायै नमः ।
ॐ कमलाकररूपधृषे नमः । 40
ॐ कमलाकरसिद्धिस्थायै नमः ।
ॐ कमलाकरपारदायै नमः ।
ॐ कमलाकरमध्यस्थायै नमः ।
ॐ कमलाकरतोषितायै नमः ।
ॐ कथङ्कारपरालापायै नमः ।
ॐ कथङ्कारपरायणायै नमः ।
ॐ कथङ्कारपदान्तस्थायै नमः ।
ॐ कथङ्कारपदार्थभुवे नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ कमलजायै नमः ।
ॐ कमलाक्षप्रपूजितायै नमः ।
ॐ कमलाक्षवरोद्युक्तायै नमः ।
ॐ ककारायै नमः ।
ॐ कर्बुराक्षरायै नमः ।
ॐ करतारायै नमः ।
ॐ करच्छिन्नायै नमः ।
ॐ करश्यामायै नमः ।
ॐ करार्णवायै नमः ।
ॐ करपूज्यायै नमः ।
ॐ कररतायै नमः । 60
ॐ करदायै नमः ।
ॐ करपूजितायै नमः ।
ॐ करतोयायै नमः ।
ॐ करामर्षायै नमः ।
ॐ कर्मनाशायै नमः ।
ॐ करप्रियायै नमः ।
ॐ करप्राणायै नमः ।
ॐ करकजायै नमः ।
ॐ करकायै नमः ।
ॐ करकान्तरायै नमः ।
ॐ करकाचलरूपायै नमः ।
ॐ करकाचलशोभिन्यै नमः ।
ॐ करकाचलपुत्र्यै नमः ।
ॐ करकाचलतोषितायै नमः ।
ॐ करकाचलगेहस्थायै नमः ।
ॐ करकाचलरक्षिण्यै नमः ।
ॐ करकाचलसम्मान्यायै नमः ।
ॐ करकाचलकारिण्यै नमः ।
ॐ करकाचलवर्षाढ्यायै नमः ।
ॐ करकाचलरञ्जितायै नमः । 80
ॐ करकाचलकान्तारायै नमः ।
ॐ करकाचलमालिन्यै नमः ।
ॐ करकाचलभोज्यायै नमः ।
ॐ करकाचलरूपिण्यै नमः ।
ॐ करामलकसंस्थायै नमः ।
ॐ करामलकसिद्धिदायै नमः ।
ॐ करामलकसम्पूज्यायै नमः ।
ॐ करामलकतारिण्यै नमः ।
ॐ करामलककाल्यै नमः ।
ॐ करामलकरोचिन्यै नमः ।
ॐ करामलकमात्रे नमः ।
ॐ करामलकसेविन्यै नमः ।
ॐ करामलकबद्ध्येयायै नमः ।
ॐ करामलकदायिन्यै नमः ।
ॐ कञ्जनेत्रायै नमः ।
ॐ कञ्जगत्यै नमः ।
ॐ कञ्जस्थायै नमः ।
ॐ कञ्जधारिण्यै नमः ।
ॐ कञ्जमालाप्रियकर्यै नमः ।
ॐ कञ्जरूपायै नमः । 100
ॐ कञ्जजायै नमः ।
ॐ कञ्जजात्यै नमः ।
ॐ कञ्जगत्यै नमः ।
ॐ कञ्जहोमपरायणायै नमः ।
ॐ कञ्जमण्डलमध्यस्थायै नमः ।
ॐ कञ्जाभरणभूषितायै नमः ।
ॐ कञ्जसम्माननिरतायै नमः ।
ॐ कञ्जोत्पत्तिपरायणायै नमः ।
ॐ कञ्जराशिसमाकारायै नमः ।
ॐ कञ्जारण्यनिवासिन्यै नमः ।
ॐ करञ्जवृक्षमध्यस्थायै नमः ।
ॐ करञ्जवृक्षवासिन्यै नमः ।
ॐ करञ्जफलभूषाढ्यायै नमः ।
ॐ करञ्जवनवासिन्यै नमः ।
ॐ करञ्जमालाभरणायै नमः ।
ॐ करवालपरायणायै नमः ।
ॐ करवालप्रहृष्टात्मने नमः ।
ॐ करवालप्रियागत्यै नमः ।
ॐ करवालप्रियाकन्थायै नमः ।
ॐ करवालविहारिण्यै नमः । 120
ॐ करवालमय्यै नमः ।
ॐ कर्मायै नमः ।
ॐ करवालप्रियङ्कर्यै नमः ।
ॐ कबन्धमालाभरणायै नमः ।
ॐ कबन्धराशिमध्यगायै नमः ।
ॐ कबन्धकूटसंस्थानायै नमः ।
ॐ कबन्धानन्तभूषणायै नमः ।
ॐ कबन्धनादसन्तुष्टायै नमः ।
ॐ कबन्धासनधारिण्यै नमः ।
ॐ कबन्धगृहमध्यस्थायै नमः ।
ॐ कबन्धवनवासिन्यै नमः ।
ॐ कबन्धकाञ्चीकरण्यै नमः ।
ॐ कबन्धराशिभूषणायै नमः ।
ॐ कबन्धमालाजयदायै नमः ।
ॐ कबन्धदेहवासिन्यै नमः ।
ॐ कबन्धासनमान्यायै नमः ।
ॐ कपालमाल्यधारिण्यै नमः ।
ॐ कपालमालामध्यस्थायै नमः ।
ॐ कपालव्रततोषितायै नमः ।
ॐ कपालदीपसन्तुष्टायै नमः । 140
ॐ कपालदीपरूपिण्यै नमः ।
ॐ कपालदीपवरदायै नमः ।
ॐ कपालकज्जलस्थितायै नमः ।
ॐ कपालमालाजयदायै नमः ।
ॐ कपालजपतोषिण्यै नमः ।
ॐ कपालसिद्धिसंहृष्टायै नमः ।
ॐ कपालभोजनोद्यतायै नमः ।
ॐ कपालव्रतसंस्थानायै नमः ।
ॐ कपालकमलालयायै नमः ।
ॐ कवित्वामृतसारायै नमः ।
ॐ कवित्वामृतसागरायै नमः ।
ॐ कवित्वसिद्धिसंहृष्टायै नमः ।
ॐ कवित्वादानकारिण्यै नमः ।
ॐ कविपूज्यायै नमः ।
ॐ कविगत्यै नमः ।
ॐ कविरूपायै नमः ।
ॐ कविप्रियायै नमः ।
ॐ कविब्रह्मानन्दरूपायै नमः ।
ॐ कवित्वव्रततोषितायै नमः ।
ॐ कविमानससंस्थानायै नमः । 160
ॐ कविवाञ्छाप्रपूरण्यै नमः ।
ॐ कविकण्ठस्थितायै नमः ।
ॐ कं ह्रीं कं कं कं कविपूर्तिदायै नमः ।
ॐ कज्जलायै नमः ।
ॐ कज्जलादानमानसायै नमः ।
ॐ कज्जलप्रियायै नमः ।
ॐ कपालकज्जलसमायै नमः ।
ॐ कज्जलेशप्रपूजितायै नमः ।
ॐ कज्जलार्णवमध्यस्थायै नमः ।
ॐ कज्जलानन्दरूपिण्यै नमः ।
ॐ कज्जलप्रियसन्तुष्टायै नमः ।
ॐ कज्जलप्रियतोषिण्यै नमः ।
ॐ कपालमालाभरणायै नमः ।
ॐ कपालकरभूषणायै नमः ।
ॐ कपालकरभूषाढ्यायै नमः ।
ॐ कपालचक्रमण्डितायै नमः ।
ॐ कपालकोटिनिलयायै नमः ।
ॐ कपालदुर्गकारिण्यै नमः ।
ॐ कपालगिरिसंस्थानायै नमः ।
ॐ कपालचक्रवासिन्यै नमः । 180
ॐ कपालपात्रसन्तुष्टायै नमः ।
ॐ कपालार्घ्यपरायणायै नमः ।
ॐ कपालार्घ्यप्रियप्राणायै नमः ।
ॐ कपालार्घ्यवरप्रदायै नमः ।
ॐ कपालचक्ररूपायै नमः ।
ॐ कपालरूपमात्रगायै नमः ।
ॐ कदल्यै नमः ।
ॐ कदलीरूपायै नमः ।
ॐ कदलीवनवासिन्यै नमः ।
ॐ कदलीपुष्पसम्प्रीतायै नमः ।
ॐ कदलीफलमानसायै नमः ।
ॐ कदलीहोमसन्तुष्टायै नमः ।
ॐ कदलीदर्शनोद्यतायै नमः ।
ॐ कदलीगर्भमध्यस्थायै नमः ।
ॐ कदलीवनसुन्दर्यै नमः ।
ॐ कदम्बपुष्पनिलयायै नमः ।
ॐ कदम्बवनमध्यगायै नमः ।
ॐ कदम्बकुसुमामोदायै नमः ।
ॐ कदम्बवनतोषिण्यै नमः ।
ॐ कदम्बपुष्पसम्पूज्यायै नमः । 200
ॐ कदम्बपुष्पहोमदायै नमः ।
ॐ कदम्बपुष्पमध्यस्थायै नमः ।
ॐ कदम्बफलभोजिन्यै नमः ।
ॐ कदम्बकाननान्तःस्थायै नमः ।
ॐ कदम्बाचलवासिन्यै नमः ।
ॐ कक्षपायै नमः ।
ॐ कक्षपाराध्यायै नमः ।
ॐ कक्षपासनसंस्थितायै नमः ।
ॐ कर्णपूरायै नमः ।
ॐ कर्णनासायै नमः ।
ॐ कर्णाढ्यायै नमः ।
ॐ कालभैरव्यै नमः ।
ॐ कलप्रीतायै नमः ।
ॐ कलहदायै नमः ।
ॐ कलहायै नमः ।
ॐ कलहातुरायै नमः ।
ॐ कर्णयक्ष्यै नमः ।
ॐ कर्णवार्ताकथिन्यै नमः ।
ॐ कर्णसुन्दर्यै नमः ।
ॐ कर्णपिशाचिन्यै नमः । 220
ॐ कर्णमञ्जर्यै नमः ।
ॐ कविकक्षदायै नमः ।
ॐ कविकक्षविरूपाढ्यायै नमः ।
ॐ कविकक्षस्वरूपिण्यै नमः ।
ॐ कस्तूरीमृगसंस्थानायै नमः ।
ॐ कस्तूरीमृगरूपिण्यै नमः ।
ॐ कस्तूरीमृगसन्तोषायै नमः ।
ॐ कस्तूरीमृगमध्यगायै नमः ।
ॐ कस्तूरीरसनीलाङ्ग्यै नमः ।
ॐ कस्तूरीगन्धतोषितायै नमः ।
ॐ कस्तूरीपूजकप्राणायै नमः ।
ॐ कस्तूरीपूजकप्रियायै नमः ।
ॐ कस्तूरीप्रेमसन्तुष्टायै नमः ।
ॐ कस्तूरीप्राणधारिण्यै नमः ।
ॐ कस्तूरीपूजकानन्दायै नमः ।
ॐ कस्तूरीगन्धरूपिण्यै नमः ।
ॐ कस्तूरीमालिकारूपायै नमः ।
ॐ कस्तूरीभोजनप्रियायै नमः ।
ॐ कस्तूरीतिलकानन्दायै नमः ।
ॐ कस्तूरीतिलकप्रियायै नमः । 240
ॐ कस्तूरीहोमसन्तुष्टायै नमः ।
ॐ कस्तूरीतर्पणोद्यतायै नमः ।
ॐ कस्तूरीमार्जनोद्युक्तायै नमः ।
ॐ कस्तूरीचक्रपूजितायै नमः ।
ॐ कस्तूरीपुष्पसम्पूज्यायै नमः ।
ॐ कस्तूरीचर्वणोद्यतायै नमः ।
ॐ कस्तूरीगर्भमध्यस्थायै नमः ।
ॐ कस्तूरीवस्त्रधारिण्यै नमः ।
ॐ कस्तूरिकामोदरतायै नमः ।
ॐ कस्तूरीवनवासिन्यै नमः ।
ॐ कस्तूरीवनसंरक्षायै नमः ।
ॐ कस्तूरीप्रेमधारिण्यै नमः ।
ॐ कस्तूरीशक्तिनिलयायै नमः ।
ॐ कस्तूरीशक्तिकुण्डगायै नमः ।
ॐ कस्तूरीकुण्डसंस्नातायै नमः ।
ॐ कस्तूरीकुण्डमज्जनायै नमः ।
ॐ कस्तूरीजीवसन्तुष्टायै नमः ।
ॐ कस्तूरीजीवधारिण्यै नमः ।
ॐ कस्तूरीपरमामोदायै नमः ।
ॐ कस्तूरीजीवनक्षमायै नमः । 260
ॐ कस्तूरीजातिभावस्थायै नमः ।
ॐ कस्तूरीगन्धचुम्बनायै नमः ।
ॐ कस्तूरीगन्धसंशोभाविराजितकपालभुवे नमः ।
ॐ कस्तूरीमदनान्तःस्थायै नमः ।
ॐ कस्तूरीमदहर्षदायै नमः ।
ॐ कस्तूर्यै नमः ।
ॐ कवितानाढ्यायै नमः ।
ॐ कस्तूरीगृहमध्यगायै नमः ।
ॐ कस्तूरीस्पर्शकप्राणायै नमः ।
ॐ कस्तूरीनिन्दकान्तकायै नमः ।
ॐ कस्तूर्यामोदरसिकायै नमः ।
ॐ कस्तूरीक्रीडनोद्यतायै नमः ।
ॐ कस्तूरीदाननिरतायै नमः ।
ॐ कस्तूरीवरदायिन्यै नमः ।
ॐ कस्तूरीस्थापनासक्तायै नमः ।
ॐ कस्तूरीस्थानरञ्जिन्यै नमः ।
ॐ कस्तूरीकुशलप्राणायै नमः ।
ॐ कस्तूरीस्तुतिवन्दितायै नमः ।
ॐ कस्तूरीवन्दकाराध्यायै नमः ।
ॐ कस्तूरीस्थानवासिन्यै नमः । 280
ॐ कहरूपायै नमः ।
ॐ कहाढ्यायै नमः ।
ॐ कहानन्दायै नमः ।
ॐ कहात्मभुवे नमः ।
ॐ कहपूज्यायै नमः ।
ॐ कहात्याख्यायै नमः ।
ॐ कहहेयायै नमः ।
ॐ कहात्मिकायै नमः ।
ॐ कहमालायै नमः ।
ॐ कण्ठभूषायै नमः ।
ॐ कहमन्त्रजपोद्यतायै नमः ।
ॐ कहनामस्मृतिपरायै नमः ।
ॐ कहनामपरायणायै नमः ।
ॐ कहपारायणरतायै नमः ।
ॐ कहदेव्यै नमः ।
ॐ कहेश्वर्यै नमः ।
ॐ कहहेतवे नमः ।
ॐ कहानन्दायै नमः ।
ॐ कहनादपरायणायै नमः ।
ॐ कहमात्रे नमः । 300
ॐ कहान्तःस्थायै नमः ।
ॐ कहमन्त्रायै नमः ।
ॐ कहेश्वर्यै नमः ।
ॐ कहगेयायै नमः ।
ॐ कहाराध्यायै नमः ।
ॐ कहध्यानपरायणायै नमः ।
ॐ कहतन्त्रायै नमः ।
ॐ कहकहायै नमः ।
ॐ कहचर्यापरायणायै नमः ।
ॐ कहाचारायै नमः ।
ॐ कहगत्यै नमः ।
ॐ कहताण्डवकारिण्यै नमः ।
ॐ कहारण्यायै नमः ।
ॐ कहरत्यै नमः ।
ॐ कहशक्तिपरायणायै नमः ।
ॐ कहराज्यनतायै नमः ।
ॐ कर्मसाक्षिण्यै नमः ।
ॐ कर्मसुन्दर्यै नमः ।
ॐ कर्मविद्यायै नमः ।
ॐ कर्मगत्यै नमः । 320
ॐ कर्मतन्त्रपरायणायै नमः ।
ॐ कर्ममात्रायै नमः ।
ॐ कर्मगात्रायै नमः ।
ॐ कर्मधर्मपरायणायै नमः ।
ॐ कर्मरेखानाशकर्त्र्यै नमः ।
ॐ कर्मरेखाविनोदिन्यै नमः ।
ॐ कर्मरेखामोहकर्यै नमः ।
ॐ कर्मकीर्तिपरायणायै नमः ।
ॐ कर्मविद्यायै नमः ।
ॐ कर्मसारायै नमः ।
ॐ कर्माधारायै नमः ।
ॐ कर्मभुवे नमः ।
ॐ कर्मकार्यै नमः ।
ॐ कर्महार्यै नमः ।
ॐ कर्मकौतुकसुन्दर्यै नमः ।
ॐ कर्मकाल्यै नमः ।
ॐ कर्मतारायै नमः ।
ॐ कर्मच्छिन्नायै नमः ।
ॐ कर्मदायै नमः ।
ॐ कर्मचाण्डालिन्यै नमः । 340
ॐ कर्मवेदमात्रे नमः ।
ॐ कर्मभुवे नमः ।
ॐ कर्मकाण्डरतानन्तायै नमः ।
ॐ कर्मकाण्डानुमानितायै नमः ।
ॐ कर्मकाण्डपरीणाहायै नमः ।
ॐ कमठ्यै नमः ।
ॐ कमठाकृत्यै नमः ।
ॐ कमठाराध्यहृदयायै नमः ।
ॐ कमठाकण्ठसुन्दर्यै नमः ।
ॐ कमठासनसंसेव्यायै नमः ।
ॐ कमठ्यै नमः ।
ॐ कर्मतत्परायै नमः ।
ॐ करुणाकरकान्तायै नमः ।
ॐ करुणाकरवन्दितायै नमः ।
ॐ कठोरायै नमः ।
ॐ करमालायै नमः ।
ॐ कठोरकुचधारिण्यै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ कपटिन्यै नमः ।
ॐ कठिनायै नमः । 360
ॐ कङ्कभूषणायै नमः ।
ॐ करभोर्वै नमः ।
ॐ कठिनदायै नमः ।
ॐ करभायै नमः ।
ॐ करभालयायै नमः ।
ॐ कलभाषामय्यै नमः ।
ॐ कल्पायै नमः ।
ॐ कल्पनायै नमः ।
ॐ कल्पदायिन्यै नमः ।
ॐ कमलस्थायै नमः ।
ॐ कलामालायै नमः ।
ॐ कमलास्यायै नमः ।
ॐ क्वणत्प्रभायै नमः ।
ॐ ककुद्मिन्यै नमः ।
ॐ कष्टवत्यै नमः ।
ॐ करणीयकथार्चितायै नमः ।
ॐ कचार्चितायै नमः ।
ॐ कचतन्वै नमः ।
ॐ कचसुन्दरधारिण्यै नमः ।
ॐ कठोरकुचसंलग्नायै नमः । 380
ॐ कटिसूत्रविराजितायै नमः ।
ॐ कर्णभक्षप्रियायै नमः ।
ॐ कन्दायै नमः ।
ॐ कथायै नमः ।
ॐ कन्दगत्यै नमः ।
ॐ कल्यै नमः ।
ॐ कलिघ्न्यै नमः ।
ॐ कलिदूत्यै नमः ।
ॐ कविनायकपूजितायै नमः ।
ॐ कणकक्षानियन्त्र्यै नमः ।
ॐ कश्चित्कविवरार्चितायै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ कर्तृकाभूषायै नमः ।
ॐ कारिण्यै नमः ।
ॐ कर्णशत्रुपायै नमः ।
ॐ करणेश्यै नमः ।
ॐ करणपायै नमः ।
ॐ कलवाचायै नमः ।
ॐ कलानिध्यै नमः ।
ॐ कलनायै नमः । 400
ॐ कलनाधारायै नमः ।
ॐ कारिकायै नमः ।
ॐ करकायै नमः ।
ॐ करायै नमः ।
ॐ कलगेयायै नमः ।
ॐ कर्कराश्यै नमः ।
ॐ कर्कराशिप्रपूजितायै नमः ।
ॐ कन्याराश्यै नमः ।
ॐ कन्यकायै नमः ।
ॐ कन्यकाप्रियभाषिण्यै नमः ।
ॐ कन्यकादानसन्तुष्टायै नमः ।
ॐ कन्यकादानतोषिण्यै नमः ।
ॐ कन्यादानकरानन्दायै नमः ।
ॐ कन्यादानग्रहेष्टदायै नमः ।
ॐ कर्षणायै नमः ।
ॐ कक्षदहनायै नमः ।
ॐ कामितायै नमः ।
ॐ कमलासनायै नमः ।
ॐ करमालानन्दकर्त्र्यै नमः ।
ॐ करमालाप्रतोषितायै नमः । 420
ॐ करमालाशयानन्दायै नमः ।
ॐ करमालासमागमायै नमः ।
ॐ करमालासिद्धिदात्र्यै नमः ।
ॐ करमालाकरप्रियायै नमः ।
ॐ करप्रियायै नमः ।
ॐ कररतायै नमः ।
ॐ करदानपरायणायै नमः ।
ॐ कलानन्दायै नमः ।
ॐ कलिगत्यै नमः ।
ॐ कलिपूज्यायै नमः ।
ॐ कलिप्रस्वै नमः ।
ॐ कलनादनिनादस्थायै नमः ।
ॐ कलनादवरप्रदायै नमः ।
ॐ कलनादसमाजस्थायै नमः ।
ॐ कहोलायै नमः ।
ॐ कहोलदायै नमः ।
ॐ कहोलगेहमध्यस्थायै नमः ।
ॐ कहोलवरदायिन्यै नमः ।
ॐ कहोलकविताधारायै नमः ।
ॐ कहोलृषिमानितायै नमः । 440
ॐ कहोलमानसाराध्यायै नमः ।
ॐ कहोलवाक्यकारिण्यै नमः ।
ॐ कर्तृरूपायै नमः ।
ॐ कर्तृमय्यै नमः ।
ॐ कर्तृमात्रे नमः ।
ॐ कर्तर्यै नमः ।
ॐ कनीयायै नमः ।
ॐ कनकाराध्यायै नमः ।
ॐ कनीनकमय्यै नमः ।
ॐ कनीयानन्दनिलयायै नमः ।
ॐ कनकानन्दतोषितायै नमः ।
ॐ कनीयककरायै नमः ।
ॐ काष्ठायै नमः ।
ॐ कथार्णवकर्यै नमः ।
ॐ कर्यै नमः ।
ॐ करिगम्यायै नमः ।
ॐ करिगत्यै नमः ।
ॐ करिध्वजपरायणायै नमः ।
ॐ करिनाथप्रियायै नमः ।
ॐ कण्ठायै नमः । 460
ॐ कथानकप्रतोषितायै नमः ।
ॐ कमनीयायै नमः ।
ॐ कमनकायै नमः ।
ॐ कमनीयविभूषणायै नमः ।
ॐ कमनीयसमाजस्थायै नमः ।
ॐ कमनीयव्रतप्रियायै नमः ।
ॐ कमनीयगुणाराध्यायै नमः ।
ॐ कपिलायै नमः ।
ॐ कपिलेश्वर्यै नमः ।
ॐ कपिलाराध्यहृदयायै नमः ।
ॐ कपिलाप्रियवादिन्यै नमः ।
ॐ कहचक्रमन्त्रवर्णायै नमः ।
ॐ कहचक्रप्रसूनकायै नमः ।
ॐ केईलह्रींस्वरूपायै नमः ।
ॐ केईलह्रींवरप्रदायै नमः ।
ॐ केईलह्रींसिद्धिदात्र्यै नमः ।
ॐ केईलह्रींस्वरूपिण्यै नमः ।
ॐ केईलह्रीम्मन्त्रवर्णायै नमः ।
ॐ केईलह्रीम्प्रसूकलायै नमः ।
ॐ केवर्गायै नमः । 480
ॐ कपाटस्थायै नमः ।
ॐ कपाटोद्घाटनक्षमायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कपाल्यै नमः ।
ॐ कङ्कालप्रियभाषिण्यै नमः ।
ॐ कङ्कालभैरवाराध्यायै नमः ।
ॐ कङ्कालमानसंस्थितायै नमः ।
ॐ कङ्कालमोहनिरतायै नमः ।
ॐ कङ्कालमोहदायिन्यै नमः ।
ॐ कलुषघ्न्यै नमः ।
ॐ कलुषहायै नमः ।
ॐ कलुषार्तिविनाशिन्यै नमः ।
ॐ कलिपुष्पायै नमः ।
ॐ कलादानायै नमः ।
ॐ कशिप्वै नमः ।
ॐ कश्यपार्चितायै नमः ।
ॐ कश्यपायै नमः ।
ॐ कश्यपाराध्यायै नमः ।
ॐ कलिपूर्णकलेवरायै नमः ।
ॐ कलेवरकर्यै नमः । 500
ॐ काञ्च्यै नमः ।
ॐ कवर्गायै नमः ।
ॐ करालकायै नमः ।
ॐ करालभैरवाराध्यायै नमः ।
ॐ करालभैरवेश्वर्यै नमः ।
ॐ करालायै नमः ।
ॐ कलनाधारायै नमः ।
ॐ कपर्दीशवरप्रदायै नमः ।
ॐ कपर्दीशप्रेमलतायै नमः ।
ॐ कपर्दिमालिकायुतायै नमः ।
ॐ कपर्दिजपमालाढ्यायै नमः ।
ॐ करवीरप्रसूनदायै नमः ।
ॐ करवीरप्रियप्राणायै नमः ।
ॐ करवीरप्रपूजितायै नमः ।
ॐ कर्णिकारसमाकारायै नमः ।
ॐ कर्णिकारप्रपूजितायै नमः ।
ॐ करीषाग्निस्थितायै नमः ।
ॐ कर्षायै नमः ।
ॐ कर्षमात्रसुवर्णदायै नमः ।
ॐ कलशायै नमः । 520
ॐ कलशाराध्यायै नमः ।
ॐ कषायायै नमः ।
ॐ करिगानदायै नमः ।
ॐ कपिलायै नमः ।
ॐ कलकण्ठ्यै नमः ।
ॐ कलिकल्पलता मतायै नमः ।
ॐ कल्पमात्रे नमः ।
ॐ कल्पलतायै नमः ।
ॐ कल्पकार्यै नमः ।
ॐ कल्पभुवे नमः ।
ॐ कर्पूरामोदरुचिरायै नमः ।
ॐ कर्पूरामोदधारिण्यै नमः ।
ॐ कर्पूरमालाभरणायै नमः ।
ॐ कर्पूरवासपूर्तिदायै नमः ।
ॐ कर्पूरमालाजयदायै नमः ।
ॐ कर्पूरार्णवमध्यगायै नमः ।
ॐ कर्पूरतर्पणरतायै नमः ।
ॐ कटकाम्बरधारिण्यै नमः ।
ॐ कपटेश्ववरसम्पूज्यायै नमः ।
ॐ कपटेश्वररूपिण्यै नमः । 540
ॐ कट्वै नमः ।
ॐ कपिध्वजाराध्यायै नमः ।
ॐ कलापपुष्पधारिण्यै नमः ।
ॐ कलापपुष्परुचिरायै नमः ।
ॐ कलापपुष्पपूजितायै नमः ।
ॐ क्रकचायै नमः ।
ॐ क्रकचाराध्यायै नमः ।
ॐ कथम्ब्रूमायै नमः ।
ॐ करालतायै नमः ।
ॐ कथङ्कारविनिर्मुक्तायै नमः ।
ॐ काल्यै नमः ।
ॐ कालक्रियायै नमः ।
ॐ क्रतवे नमः ।
ॐ कामिन्यै नमः ।
ॐ कामिनीपूज्यायै नमः ।
ॐ कामिनीपुष्पधारिण्यै नमः ।
ॐ कामिनीपुष्पनिलयायै नमः ।
ॐ कामिनीपुष्पपूर्णिमायै नमः ।
ॐ कामिनीपुष्पपूजार्हायै नमः ।
ॐ कामिनीपुष्पभूषणायै नमः । 560
ॐ कामिनीपुष्पतिलकायै नमः ।
ॐ कामिनीकुण्डचुम्बनायै नमः ।
ॐ कामिनीयोगसन्तुष्टायै नमः ।
ॐ कामिनीयोगभोगदायै नमः ।
ॐ कामिनीकुण्डसम्मग्नायै नमः ।
ॐ कामिनीकुण्डमध्यगायै नमः ।
ॐ कामिनीमानसाराध्यायै नमः ।
ॐ कामिनीमानतोषितायै नमः ।
ॐ कामिनीमानसञ्चारायै नमः ।
ॐ कालिकायै नमः ।
ॐ कालकालिकायै नमः ।
ॐ कामायै नमः ।
ॐ कामदेव्यै नमः ।
ॐ कामेश्यै नमः ।
ॐ कामसम्भवायै नमः ।
ॐ कामभावायै नमः ।
ॐ कामरतायै नमः ।
ॐ कामार्तायै नमः ।
ॐ काममञ्जर्यै नमः ।
ॐ काममञ्जीररणितायै नमः । 580
ॐ कामदेवप्रियान्तरायै नमः ।
ॐ कामकाल्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कालिकायै नमः ।
ॐ कमलार्चितायै नमः ।
ॐ कादिकायै नमः ।
ॐ कमलायै नमः ।
ॐ काल्यै नमः ।
ॐ कालानलसमप्रभायै नमः ।
ॐ कल्पान्तदहनायै नमः ।
ॐ कान्तायै नमः ।
ॐ कान्तारप्रियवासिन्यै नमः ।
ॐ कालपूज्यायै नमः ।
ॐ कालरतायै नमः ।
ॐ कालमात्रे नमः ।
ॐ कालिन्यै नमः ।
ॐ कालवीरायै नमः ।
ॐ कालघोरायै नमः ।
ॐ कालसिद्धायै नमः ।
ॐ कालदायै नमः । 600
ॐ कालाञ्जनसमाकारायै नमः ।
ॐ कालञ्जरनिवासिन्यै नमः ।
ॐ कालृद्ध्यै नमः ।
ॐ कालवृद्ध्यै नमः ।
ॐ कारागृहविमोचिन्यै नमः ।
ॐ कादिविद्यायै नमः ।
ॐ कादिमात्रे नमः ।
ॐ कादिस्थायै नमः ।
ॐ कादिसुन्दर्यै नमः ।
ॐ काश्यै नमः ।
ॐ काञ्च्यै नमः ।
ॐ काञ्चीशायै नमः ।
ॐ काशीशवरदायिन्यै नमः ।
ॐ क्रीं बीजायै नमः ।
ॐ क्रीं बीजहृदयाय नमः स्मृतायै नमः ।
ॐ काम्यायै नमः ।
ॐ काम्यगत्यै नमः ।
ॐ काम्यसिद्धिदात्र्यै नमः ।
ॐ कामभुवे नमः ।
ॐ कामाख्यायै नमः । 620
ॐ कामरूपायै नमः ।
ॐ कामचापविमोचिन्यै नमः ।
ॐ कामदेवकलारामायै नमः ।
ॐ कामदेवकलालयायै नमः ।
ॐ कामरात्र्यै नमः ।
ॐ कामदात्र्यै नमः ।
ॐ कान्ताराचलवासिन्यै नमः ।
ॐ कामरूपायै नमः ।
ॐ कामगत्यै नमः ।
ॐ कामयोगपरायणायै नमः ।
ॐ कामसम्मर्दनरतायै नमः ।
ॐ कामगेहविकाशिन्यै नमः ।
ॐ कालभैरवभार्यायै नमः ।
ॐ कालभैरवकामिन्यै नमः ।
ॐ कालभैरवयोगस्थायै नमः ।
ॐ कालभैरवभोगदायै नमः ।
ॐ कामधेनवे नमः ।
ॐ कामदोग्ध्र्यै नमः ।
ॐ काममात्रे नमः ।
ॐ कान्तिदायै नमः । 640
ॐ कामुकायै नमः ।
ॐ कामुकाराध्यायै नमः ।
ॐ कामुकानन्दवर्धिन्यै नमः ।
ॐ कार्तवीर्यायै नमः ।
ॐ कार्तिकेयायै नमः ।
ॐ कार्तिकेयप्रपूजितायै नमः ।
ॐ कार्यायै नमः ।
ॐ कारणदायै नमः ।
ॐ कार्यकारिण्यै नमः ।
ॐ कारणान्तरायै नमः ।
ॐ कान्तिगम्यायै नमः ।
ॐ कान्तिमय्यै नमः ।
ॐ कान्त्यायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ कायै नमः ।
ॐ कामसारायै नमः ।
ॐ काश्मीरायै नमः ।
ॐ काश्मीराचारतत्परायै नमः ।
ॐ कामरूपाचाररतायै नमः ।
ॐ कामरूपप्रियंवदायै नमः । 660
ॐ कामरूपाचारसिद्ध्यै नमः ।
ॐ कामरूपमनोमय्यै नमः ।
ॐ कार्तिक्यै नमः ।
ॐ कार्तिकाराध्यायै नमः ।
ॐ काञ्चनारप्रसूनभुवे नमः ।
ॐ काञ्चनारप्रसूनाभायै नमः ।
ॐ काञ्चनारप्रपूजितायै नमः ।
ॐ काञ्चरूपायै नमः ।
ॐ काञ्चभूम्यै नमः ।
ॐ कांस्यपात्रप्रभोजिन्यै नमः ।
ॐ कांस्यध्वनिमय्यै नमः ।
ॐ कामसुन्दर्यै नमः ।
ॐ कामचुम्बनायै नमः ।
ॐ काशपुष्पप्रतीकाशायै नमः ।
ॐ कामद्रुमसमागमायै नमः ।
ॐ कामपुष्पायै नमः ।
ॐ कामभूम्यै नमः ।
ॐ कामपूज्यायै नमः ।
ॐ कामदायै नमः ।
ॐ कामदेहायै नमः । 680
ॐ कामगेहायै नमः ।
ॐ कामबीजपरायणायै नमः ।
ॐ कामध्वजसमारूढायै नमः ।
ॐ कामध्वजसमास्थितायै नमः ।
ॐ काश्यप्यै नमः ।
ॐ काश्यपाराध्यायै नमः ।
ॐ काश्यपानन्ददायिन्यै नमः ।
ॐ कालिन्दीजलसङ्काशायै नमः ।
ॐ कालिन्दीजलपूजितायै नमः ।
ॐ कादेवपूजानिरतायै नमः ।
ॐ कादेवपरमार्थदायै नमः ।
ॐ कर्मणायै नमः ।
ॐ कर्मणाकारायै नमः ।
ॐ कामकर्मणकारिण्यै नमः ।
ॐ कार्मणत्रोटनकर्यै नमः ।
ॐ काकिन्यै नमः ।
ॐ कारणाह्वयायै नमः ।
ॐ काव्यामृतायै नमः ।
ॐ कालिङ्गायै नमः ।
ॐ कालिङ्गमर्दनोद्यतायै नमः । 700
ॐ कालागुरुविभूषाढ्यायै नमः ।
ॐ कालागुरुविभूतिदायै नमः ।
ॐ कालागुरुसुगन्धायै नमः ।
ॐ कालागुरुप्रतर्पणायै नमः ।
ॐ कावेरीनीरसम्प्रीतायै नमः ।
ॐ कावेरीतीरवासिन्यै नमः ।
ॐ कालचक्रभ्रमाकारायै नमः ।
ॐ कालचक्रनिवासिन्यै नमः ।
ॐ काननायै नमः ।
ॐ काननाधारायै नमः ।
ॐ कार्वै नमः ।
ॐ कारुणिकामय्यै नमः ।
ॐ काम्पिल्यवासिन्यै नमः ।
ॐ काष्ठायै नमः ।
ॐ कामपत्न्यै नमः ।
ॐ कामभुवे नमः ।
ॐ कादम्बरीपानरतायै नमः ।
ॐ कादम्बर्यै नमः ।
ॐ कलायै नमः ।
ॐ कामवन्द्यायै नमः । 720
ॐ कामेश्यै नमः ।
ॐ कामराजप्रपूजितायै नमः ।
ॐ कामराजेश्वरीविद्यायै नमः ।
ॐ कामकौतुकसुन्दर्यै नमः ।
ॐ काम्बोजजायै नमः ।
ॐ काञ्छिनदायै नमः ।
ॐ कांस्यकाञ्चनकारिण्यै नमः ।
ॐ काञ्चनाद्रिसमाकारायै नमः ।
ॐ काञ्चनाद्रिप्रदानदायै नमः ।
ॐ कामकीर्त्यै नमः ।
ॐ कामकेश्यै नमः ।
ॐ कारिकायै नमः ।
ॐ कान्तराश्रयायै नमः ।
ॐ कामभेद्यै नमः ।
ॐ कामार्तिनाशिन्यै नमः ।
ॐ कामभूमिकायै नमः ।
ॐ कालनिर्णाशिन्यै नमः ।
ॐ काव्यवनितायै नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ कायस्थाकामसन्दीप्त्यै नमः । 740
ॐ काव्यदायै नमः ।
ॐ कालसुन्दर्यै नमः ।
ॐ कामेश्यै नमः ।
ॐ कारणवरायै नमः ।
ॐ कामेशीपूजनोद्यतायै नमः ।
ॐ काञ्चीनूपुरभूषाढ्यायै नमः ।
ॐ कुङ्कुमाभरणान्वितायै नमः ।
ॐ कालचक्रायै नमः ।
ॐ कालगत्यै नमः ।
ॐ कालचक्रमनोभवायै नमः ।
ॐ कुन्दमध्यायै नमः ।
ॐ कुन्दपुष्पायै नमः ।
ॐ कुन्दपुष्पप्रियायै नमः ।
ॐ कुजायै नमः ।
ॐ कुजमात्रे नमः ।
ॐ कुजाराध्यायै नमः ।
ॐ कुठारवरधारिण्यै नमः ।
ॐ कुञ्जरस्थायै नमः ।
ॐ कुशरतायै नमः ।
ॐ कुशेशयविलोचनायै नमः । 760
ॐ कुनट्यै नमः ।
ॐ कुरर्यै नमः ।
ॐ कुद्रायै नमः ।
ॐ कुरङ्ग्यै नमः ।
ॐ कुटजाश्रयायै नमः ।
ॐ कुम्भीनसविभूषायै नमः ।
ॐ कुम्भीनसवधोद्यतायै नमः ।
ॐ कुम्भकर्णमनोल्लासायै नमः ।
ॐ कुलचूडामण्यै नमः ।
ॐ कुलायै नमः ।
ॐ कुलालगृहकन्यायै नमः ।
ॐ कुलचूडामणिप्रियायै नमः ।
ॐ कुलपूज्यायै नमः ।
ॐ कुलाराध्यायै नमः ।
ॐ कुलपूजापरायणायै नमः ।
ॐ कुलभूषायै नमः ।
ॐ कुक्ष्यै नमः ।
ॐ कुररीगणसेवितायै नमः ।
ॐ कुलपुष्पायै नमः ।
ॐ कुलरतायै नमः । 780
ॐ कुलपुष्पपरायणायै नमः ।
ॐ कुलवस्त्रायै नमः ।
ॐ कुलाराध्यायै नमः ।
ॐ कुलकुण्डसमप्रभायै नमः ।
ॐ कुलकुण्डसमोल्लासायै नमः ।
ॐ कुण्डपुष्पपरायणायै नमः ।
ॐ कुण्डपुष्पप्रसन्नास्यायै नमः ।
ॐ कुण्डगोलोद्भवात्मिकायै नमः ।
ॐ कुण्डगोलोद्भवाधारायै नमः ।
ॐ कुण्डगोलमय्यै नमः ।
ॐ कुह्वै नमः ।
ॐ कुण्डगोलप्रियप्राणायै नमः ।
ॐ कुण्डगोलप्रपूजितायै नमः ।
ॐ कुण्डगोलमनोल्लासायै नमः ।
ॐ कुण्डगोलबलप्रदायै नमः ।
ॐ कुण्डदेवरतायै नमः ।
ॐ क्रुद्धायै नमः ।
ॐ कुलसिद्धिकरायै परायै नमः ।
ॐ कुलकुण्डसमाकारायै नमः ।
ॐ कुलकुण्डसमानभुवे नमः । 800
ॐ कुण्डसिद्ध्यै नमः ।
ॐ कुण्डृद्ध्यै नमः ।
ॐ कुमारीपूजनोद्यतायै नमः ।
ॐ कुमारीपूजकप्राणायै नमः ।
ॐ कुमारीपूजकालयायै नमः ।
ॐ कुमारीकामसन्तुष्टायै नमः ।
ॐ कुमारीपूजनोत्सुकायै नमः ।
ॐ कुमारीव्रतसन्तुष्टायै नमः ।
ॐ कुमारीरूपधारिण्यै नमः ।
ॐ कुमारीभोजनप्रीतायै नमः ।
ॐ कुमार्यै नमः ।
ॐ कुमारदायै नमः ।
ॐ कुमारमात्रे नमः ।
ॐ कुलदायै नमः ।
ॐ कुलयोन्यै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ कुललिङ्गायै नमः ।
ॐ कुलानन्दायै नमः ।
ॐ कुलरम्यायै नमः ।
ॐ कुतर्कधृषे नमः । 820
ॐ कुन्त्यै नमः ।
ॐ कुलकान्तायै नमः ।
ॐ कुलमार्गपरायणायै नमः ।
ॐ कुल्लायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कुल्लुकायै नमः ।
ॐ कुलकामदायै नमः ।
ॐ कुलिशाङ्ग्यै नमः ।
ॐ कुब्जिकायै नमः ।
ॐ कुब्जिकानन्दवर्धिन्यै नमः ।
ॐ कुलीनायै नमः ।
ॐ कुञ्जरगत्यै नमः ।
ॐ कुञ्जरेश्वरगामिन्यै नमः ।
ॐ कुलपाल्यै नमः ।
ॐ कुलवत्यै नमः ।
ॐ कुलदीपिकायै नमः ।
ॐ कुलयोगेश्वर्यै नमः ।
ॐ कुण्डायै नमः ।
ॐ कुङ्कुमारुणविग्रहायै नमः ।
ॐ कुङ्कुमानन्दसन्तोषायै नमः । 840
ॐ कुङ्कुमार्णववासिन्यै नमः ।
ॐ कुङ्कुमायै नमः ।
ॐ कुसुमप्रीतायै नमः ।
ॐ कुलभुवे नमः ।
ॐ कुलसुन्दर्यै नमः ।
ॐ कुमुद्वत्यै नमः ।
ॐ कुमुदिन्यै नमः ।
ॐ कुशलायै नमः ।
ॐ कुलटालयायै नमः ।
ॐ कुलटालयमध्यस्थायै नमः ।
ॐ कुलटासङ्गतोषितायै नमः ।
ॐ कुलटाभवनोद्युक्तायै नमः ।
ॐ कुशावर्तायै नमः ।
ॐ कुलार्णवायै नमः ।
ॐ कुलार्णवाचाररतायै नमः ।
ॐ कुण्डल्यै नमः ।
ॐ कुण्डलाकृत्यै नमः ।
ॐ कुमत्यै नमः ।
ॐ कुलश्रेष्ठायै नमः ।
ॐ कुलचक्रपरायणायै नमः । 860
ॐ कूटस्थायै नमः ।
ॐ कूटदृष्ट्यै नमः ।
ॐ कुन्तलायै नमः ।
ॐ कुन्तलाकृत्यै नमः ।
ॐ कुशलाकृतिरूपायै नमः ।
ॐ कूर्चबीजधरायै नमः ।
ॐ क्वै नमः ।
ॐ कुं कुं कुं कुं शब्दरतायै नमः ।
ॐ क्रुं क्रुं क्रुं क्रुं परायणायै नमः ।
ॐ कुं कुं कुं शब्दनिलयायै नमः ।
ॐ कुक्कुरालयवासिन्यै नमः ।
ॐ कुक्कुरासङ्गसंयुक्तायै नमः ।
ॐ कुक्कुरानन्तविग्रहायै नमः ।
ॐ कूर्चारम्भायै नमः ।
ॐ कूर्चबीजायै नमः ।
ॐ कूर्चजापपरायणायै नमः ।
ॐ कुलिन्यै नमः ।
ॐ कुलसंस्थानायै नमः ।
ॐ कूर्चकण्ठपरागत्यै नमः ।
ॐ कूर्चवीणाभालदेशायै नमः । 880
ॐ कूर्चमस्तकभूषितायै नमः ।
ॐ कुलवृक्षगतायै नमः ।
ॐ कूर्मायै नमः ।
ॐ कूर्माचलनिवासिन्यै नमः ।
ॐ कुलबिन्दवे नमः ।
ॐ कुलशिवायै नमः ।
ॐ कुलशक्तिपरायणायै नमः ।
ॐ कुलबिन्दुमणिप्रख्यायै नमः ।
ॐ कुङ्कुमद्रुमवासिन्यै नमः ।
ॐ कुचमर्दनसन्तुष्टायै नमः ।
ॐ कुचजापपरायणायै नमः ।
ॐ कुचस्पर्शनसन्तुष्टायै नमः ।
ॐ कुचालिङ्गनहर्षदायै नमः ।
ॐ कुमतिघ्न्यै नमः ।
ॐ कुबेरार्च्यायै नमः ।
ॐ कुचभुवे नमः ।
ॐ कुलनायिकायै नमः ।
ॐ कुगायनायै नमः ।
ॐ कुचधरायै नमः ।
ॐ कुमात्रे नमः । 900
ॐ कुन्ददन्तिन्यै नमः ।
ॐ कुगेयायै नमः ।
ॐ कुहराभासायै नमः ।
ॐ कुगेयाकुघ्नदारिकायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ किरातिन्यै नमः ।
ॐ क्लिन्नायै नमः ।
ॐ किन्नरायै नमः ।
ॐ किन्नर्यै नमः ।
ॐ क्रियायै नमः ।
ॐ क्रीङ्कारायै नमः ।
ॐ क्रीञ्जपासक्तायै नमः ।
ॐ क्रीं हूं स्त्रीं मन्त्ररूपिण्यै नमः ।
ॐ किर्मीरितदृशापाङ्ग्यै नमः ।
ॐ किशोर्यै नमः ।
ॐ किरीटिन्यै नमः ।
ॐ कीटभाषायै नमः ।
ॐ कीटयोन्यै नमः ।
ॐ कीटमात्रे नमः ।
ॐ कीटदायै नमः । 920
ॐ किंशुकायै नमः ।
ॐ कीरभाषायै नमः ।
ॐ क्रियासारायै नमः ।
ॐ क्रियावत्यै नमः ।
ॐ कीङ्कींशब्दपरायै नमः ।
ॐ क्लां क्लीं क्लूं क्लैं क्लौं मन्त्ररूपिण्यै नमः ।
ॐ कां कीं कूं कैं स्वरूपायै नमः ।
ॐ कः फट् मन्त्रस्वरूपिण्यै नमः ।
ॐ केतकीभूषणानन्दायै नमः ।
ॐ केतकीभरणान्वितायै नमः ।
ॐ कैकदायै नमः ।
ॐ केशिन्यै नमः ।
ॐ केश्यै नमः ।
ॐ केशिसूदनतत्परायै नमः ।
ॐ केशरूपायै नमः ।
ॐ केशमुक्तायै नमः ।
ॐ कैकेय्यै नमः ।
ॐ कौशिक्यै नमः ।
ॐ कैरवायै नमः ।
ॐ कैरवाह्लादायै नमः । 940
ॐ केशरायै नमः ।
ॐ केतुरूपिण्यै नमः ।
ॐ केशवाराध्यहृदयायै नमः ।
ॐ केशवासक्तमानसायै नमः ।
ॐ क्लैब्यविनाशिन्यै नमः ।
ॐ क्लैं नमः ।
ॐ क्लैं बीजजपतोषितायै नमः ।
ॐ कौशल्यायै नमः ।
ॐ कोशलाक्ष्यै नमः ।
ॐ कोशायै नमः ।
ॐ कोमलायै नमः ।
ॐ कोलापुरनिवासायै नमः ।
ॐ कोलासुरविनाशिन्यै नमः ।
ॐ कोटिरूपायै नमः ।
ॐ कोटिरतायै नमः ।
ॐ क्रोधिन्यै नमः ।
ॐ क्रोधरूपिण्यै नमः ।
ॐ केकायै नमः ।
ॐ कोकिलायै नमः ।
ॐ कोट्यै नमः । 960
ॐ कोटिमन्त्रपरायणायै नमः ।
ॐ कोट्यनन्तमन्त्रयुक्तायै नमः ।
ॐ कैरूपायै नमः ।
ॐ केरलाश्रयायै नमः ।
ॐ केरलाचारनिपुणायै नमः ।
ॐ केरलेन्द्रगृहस्थितायै नमः ।
ॐ केदाराश्रमसंस्थायै नमः ।
ॐ केदारेश्वरपूजितायै नमः ।
ॐ क्रोधरूपायै नमः ।
ॐ क्रोधपदायै नमः ।
ॐ क्रोधमात्रे नमः ।
ॐ कौशिक्यै नमः ।
ॐ कोदण्डधारिण्यै नमः ।
ॐ क्रौञ्चायै नमः ।
ॐ कौशल्यायै नमः ।
ॐ कौलमार्गगायै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कौलिकाराध्यायै नमः ।
ॐ कौलिकागारवासिन्यै नमः ।
ॐ कौतुक्यै नमः । 980
ॐ कौमुद्यै नमः ।
ॐ कौलायै नमः ।
ॐ कौमार्यै नमः ।
ॐ कौरवार्चितायै नमः ।
ॐ कौण्डिन्यायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ क्रोधज्वालाभासुररूपिण्यै नमः ।
ॐ कोटिकालानलज्वालायै नमः ।
ॐ कोटिमार्तण्डविग्रहायै नमः ।
ॐ कृत्तिकायै नमः ।
ॐ कृष्णवर्णायै नमः ।
ॐ कृष्णायै नमः ।
ॐ कृत्यायै नमः ।
ॐ क्रियातुरायै नमः ।
ॐ कृशाङ्ग्यै नमः ।
ॐ कृतकृत्यायै नमः ।
ॐ क्रः फट् स्वाहा स्वरूपिण्यै नमः ।
ॐ क्रौं क्रौं हूं फट् मन्त्रवर्णायै नमः ।
ॐ क्रीं ह्रीं हूं फट् नमः स्वधायै नमः ।
ॐ क्रीं क्रीं ह्रीं ह्रीं ह्रूं ह्रूं फट् स्वाहा मन्त्ररूपिण्यै नमः । 1000
इति श्रीसर्वसाम्राज्यमेधानाम ककारादि श्री काली सहस्रनामावलिः ।
About This Stotram
Overview
The Kakaradi Kali Sahasra Namavali is a Sanskrit collection of one thousand names of Goddess Kali, arranged with names beginning with the letter "Ka" (क). Each name denotes a specific aspect, attribute, or cosmic function of the Goddess. The text belongs to the sahasranamavali genre and is used within the Shakta Tantric tradition of Kali worship.
What are the benefits of chanting Kakaradi Kali Sahasra Namavali?
- Invokes the protection and power of Goddess Kali
- Removes obstacles and negative karmic influences
- Cultivates spiritual strength and clarity of mind
- Supports liberation (moksha) through contemplation of the divine names
When is the best time to recite this?
Recitation is considered auspicious during morning and evening worship, on Amavasya (new moon nights), during Kali Puja, and throughout the Navaratri festival period.
What is the historical and traditional background?
Sahasranamavali literature has a long history in Hindu devotional practice, with well-known examples such as the Vishnu Sahasranama and the Lalita Sahasranama. The Kakaradi arrangement — names ordered alphabetically beginning with "Ka" — is a structural device used in certain Tantric and Puranic compilations to aid memorization and systematic worship. The specific origin text for this compilation is not identified; it belongs to the tradition of Shakta devotional literature focused on the Mahavidyas, of which Kali is considered the foremost. The author is unknown.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Kali 1000 Names — another sahasranamavali for Goddess Kali, covering a broader alphabetical range of names
- Kali Chalisa — a shorter forty-verse devotional composition in the same Kali worship tradition
