Namavali - Sacred Scripture

Aadya Kalika Ashtottara Sata Namavali

Aadya Kalika Ashtottara Sata Namavali

Namavali
Kali
45 Verses
110%

आद्य कालिका अष्टोत्तर शत नामावलिः

श्रीसदाशिव उवाच

शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।

पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ 1 ॥

असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् ।

अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ 2 ॥

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।

स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥ 3 ॥

स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।

छन्दोऽनुष्टुब्देवताद्या कालिका परिकीर्तिता ।

धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ 4 ॥

अथ स्तोत्रम्

ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती ।

कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ 5 ॥

कालिका कालमाता च कालानलसमद्युतिः ।

कपर्दिनी करालास्या करुणामृतसागरा ॥ 6 ॥

कृपामयी कृपाधारा कृपापारा कृपागमा ।

कृशानुः कपिला कृष्णा कृष्णानन्दविवर्धिनी ॥ 7 ॥

कालरात्रिः कामरूपा कामपाशविमोचिनी ।

कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ 8 ॥

कुमारीपूजनप्रीता कुमारीपूजकालया ।

कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ 9 ॥

कदम्बवनसञ्चारा कदम्बवनवासिनी ।

कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ 10 ॥

किशोरी कलकण्ठा च कलनादनिनादिनी ।

कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ 11 ॥

कपालपात्रनिरता कङ्कालमाल्यधारिणी ।

कमलासनसन्तुष्टा कमलासनवासिनी ॥ 12 ॥

कमलालयमध्यस्था कमलामोदमोदिनी ।

कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ 13 ॥

कामरूपकृतावासा कामपीठविलासिनी ।

कमनीया कल्पलता कमनीयविभूषणा ॥ 14 ॥

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।

कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ 15 ॥

कारणानन्दजापेष्टा कारणार्चनहर्षिता ।

कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ 16 ॥

कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला ।

कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ 17 ॥

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।

कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ 18 ॥

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।

कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ 19 ॥

कर्पूरसागरस्नाता कर्पूरसागरालया ।

कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ 20 ॥

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।

कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ 21 ॥

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।

काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ 22 ॥

कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।

काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ 23 ॥

कामबीजजपानन्दा कामबीजस्वरूपिणी ।

कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ 24 ॥

क्रीं ह्रीं श्रीं मन्त्रवर्णेन कालकण्टकघातिनी ।

इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ 25 ॥

ककारकूटघटितं कालीरूपस्वरूपकम् ।

पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ 26 ॥

मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ।

बुद्धिं विद्यां च लभते गुरोरादेशमात्रतः ॥ 27 ॥

धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः ।

पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ 28 ॥

भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।

पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ 29 ॥

पठित्वा शतनामानि साक्षात्कालीमयो भवेत् ।

नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ 30 ॥

विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।

समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ 31 ॥

तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः ।

रूपे मूर्तिधरः कामो योषितां हृदयङ्गमः ॥ 32 ॥

सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।

यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ 33 ॥

तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।

रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ 34 ॥

दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ।

अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ 35 ॥

ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ।

बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥ 36 ॥

दुस्तरे सलिले वापि पोते वातविपद्गते ।

विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ 37 ॥

यः पठेच्छतनामानि दृढभक्तिसमन्वितः ।

सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ 38 ॥

न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् ।

सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ 39 ॥

तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ।

स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ 40 ॥

स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ।

वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ 41 ॥

तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ।

दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ 42 ॥

आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ।

अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ॥ 43 ॥

पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ।

शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ 44 ॥

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।

सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ 45 ॥

इति महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गतं श्री आद्या कालिका शतनाम स्तोत्रम् ॥

About This Stotram

Overview

Aadya Kalika Ashtottara Sata Namavali is a Sanskrit hymn listing 108 names of Aadya Kalika, the primordial form of Goddess Kali. Each name describes a distinct attribute or power of the Goddess. The text belongs to the Tantric tradition, where Shiva imparts divine knowledge to Shakti, and is recited for spiritual protection and material well-being.

What are the benefits of chanting Aadya Kalika Ashtottara Sata Namavali?

  • Recitation is said to help devotees attain siddhis (spiritual powers).
  • It is recited to remove misfortune and ward off calamities.
  • Devotees chant it to seek protection from untimely death.
  • The text is believed to bring happiness and prosperity.
  • Chanting the 108 names is considered a complete act of worship of the Goddess.

When is the best time to recite this?

This namavali is recited during daily puja, on occasions such as Kali Puja and Navaratri, and at other festivals dedicated to the Goddess. It is also recited in times of difficulty to seek divine protection.

Historical and traditional background

The Aadya Kalika Ashtottara Sata Namavali belongs to the Tantric tradition. The introductory verses indicate it was revealed by Shiva to Devi, placing it within the category of Agama texts. The exact date of composition is unknown. It circulates within Shakta devotional literature as a standalone namavali for ritual use.

Available scripts

This text is available in 14 scripts: Devanagari, Tamil, Telugu, Kannada, Malayalam, Gujarati, Bengali, IAST, Gurmukhi, Oriya, Assamese, Sinhala, ITRANS, HK. Use the script selector to read it in your preferred script.

Related Texts

  • Kali Sahasranama Stotram — a longer collection of one thousand names of the same Goddess.
  • Dakshina Kali Ashtakam — an eight-verse hymn to Kali, worshipped in the same Shakta tradition.