Stotram - Sacred Scripture

Vishnu Shatpadi

Vishnu Shatpadi

Stotram
Vishnu
6 Verses
110%

विष्णु षट्पदि

श्लोक 1

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् ।

भूतदयां विस्तारय तारय संसारसागरतः

श्लोक 2

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे ।

श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे

॥ 1 ॥

श्लोक 3

सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वम् ।

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः

॥ 2 ॥

श्लोक 4

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे ।

दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः

॥ 3 ॥

श्लोक 5

मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।

परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्

॥ 4 ॥

श्लोक 6

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द ।

भवजलधिमथनमन्दर परमं दरमपनय त्वं मे

॥ 5 ॥

श्लोक 7

नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।

इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥

इति श्रीमच्चङ्कराचार्य विरचितं श्री विष्णु षट्पदी स्तोत्रं सम्पूर्णम्

विष्णु षट्पदि | (Vishnu Shatpadi) Lyrics | Vedic Tithi