Shivashtakam
Shivashtakam
शिवाष्टकम्
श्लोक 1
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे
श्लोक 2
गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालम् ।
जटाजूट गङ्गोत्तरङ्गैर्विशालं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 1 ॥
श्लोक 3
मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 2॥
श्लोक 4
वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 3 ॥
श्लोक 5
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 4 ॥
श्लोक 6
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम् ।
बलीवर्धयानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 5 ॥
श्लोक 7
शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 6 ॥
श्लोक 8
हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे
॥ 7 ॥
श्लोक 9
स्वयं यः प्रभाते नरश्शूल पाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ॥
Related Scriptures
1000 Names of Shri Ardhanarishvara
1000 verses
कर्णाटक सङ्गीतं स्वरजति 2 (साम्ब शिव)
0 verses
दारिद्र्य दहन शिव स्तोत्रम्
9 verses
1000 Names of Lord Mahakala
1000 verses
100 Names of Lord Shiva
100 verses
Rudrayamala 1000 Names of Lord Shiva
1000 verses
