Stotram - Sacred Scripture

Shiva Mangalaashtakam

Shiva Mangalaashtakam

Stotram
Shiva
10 Verses
110%

शिव मङ्गलाष्टकम्

श्लोक 1

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।

कालकालाय रुद्राय नीलग्रीवाय मङ्गलम्

श्लोक 2

वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।

पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम्

॥ 1 ॥

श्लोक 3

भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने ।

रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम्

॥ 2 ॥

श्लोक 4

सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।

सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम्

॥ 3 ॥

श्लोक 5

मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे ।

त्रयम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम्

॥ 4 ॥

श्लोक 6

गङ्गाधराय सोमाय नमो हरिहरात्मने ।

उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम्

॥ 5 ॥

श्लोक 7

सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने ।

ईशानाय नमस्तुभ्यं पञ्चवक्राय मङ्गलम्

॥ 6 ॥

श्लोक 8

सदाशिव स्वरूपाय नमस्तत्पुरुषाय च ।

अघोराय च घोराय महादेवाय मङ्गलम्

॥ 7 ॥

श्लोक 9

श्रीचामुण्डाप्रेरितेन रचितं मङ्गलास्पदम् ।

तस्याभीष्टप्रदं शम्भोः यः पठेन्मङ्गलाष्टकम्

॥ 8 ॥

श्लोक 10

महादेवस्य देवस्य यः पठेन्मङ्गलाष्टकम् ।

सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम्

॥ 9 ॥

श्लोक 11

शिव मङ्गलाष्टकम् | (Shiva Mangalaashtakam) Lyrics | Vedic Tithi