Stotram - Sacred Scripture

Shiva Manasa Puja

Shiva Manasa Puja

Stotram
Shiva
5 Verses
110%

शिव मानस पूज

श्लोक 1

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं

नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् ।

जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा

दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्

श्लोक 2

सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं

भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं

ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु

॥ 1 ॥

श्लोक 3

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं

वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।

साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया

सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो

॥ 2 ॥

श्लोक 4

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं

पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ।

सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्

॥ 3 ॥

श्लोक 5

कर चरण कृतं वाक्कायजं कर्मजं वा

श्रवण नयनजं वा मानसं वापराधम् ।

विहितमविहितं वा सर्वमेतत्-क्षमस्व

जय जय करुणाब्धे श्री महादेव शम्भो

॥ 4 ॥

श्लोक 6