Namavali - Sacred Scripture

Sarasvati Sahasra Namavali

Sarasvati Sahasra Namavali

Namavali
Saraswati
0 Verses
110%

सरस्वती सहस्र नामावलि

श्लोक 1

ॐ वाचे नमः ।

ॐ वाण्यै नमः ।

ॐ वरदायै नमः ।

ॐ वन्द्यायै नमः ।

ॐ वरारोहायै नमः ।

ॐ वरप्रदायै नमः ।

ॐ वृत्त्यै नमः ।

ॐ वागीश्वर्यै नमः ।

ॐ वार्तायै नमः ।

ॐ वरायै नमः ।

ॐ वागीशवल्लभायै नमः ।

ॐ विश्वेश्वर्यै नमः ।

ॐ विश्ववन्द्यायै नमः ।

ॐ विश्वेशप्रियकारिण्यै नमः ।

ॐ वाग्वादिन्यै नमः ।

ॐ वाग्देव्यै नमः ।

ॐ वृद्धिदायै नमः ।

ॐ वृद्धिकारिण्यै नमः ।

ॐ वृद्ध्यै नमः ।

ॐ वृद्धायै नमः । 20

ॐ विषघ्न्यै नमः ।

ॐ वृष्ट्यै नमः ।

ॐ वृष्टिप्रदायिन्यै नमः ।

ॐ विश्वाराध्यायै नमः ।

ॐ विश्वमात्रे नमः ।

ॐ विश्वधात्र्यै नमः ।

ॐ विनायकायै नमः ।

ॐ विश्वशक्त्यै नमः ।

ॐ विश्वसारायै नमः ।

ॐ विश्वायै नमः ।

ॐ विश्वविभावर्यै नमः ।

ॐ वेदान्तवेदिन्यै नमः ।

ॐ वेद्यायै नमः ।

ॐ वित्तायै नमः ।

ॐ वेदत्रयात्मिकायै नमः ।

ॐ वेदज्ञायै नमः ।

ॐ वेदजनन्यै नमः ।

ॐ विश्वायै नमः ।

ॐ विश्वविभावर्यै नमः ।

ॐ वरेण्यायै नमः । 40

ॐ वाङ्मय्यै नमः ।

ॐ वृद्धायै नमः ।

ॐ विशिष्टप्रियकारिण्यै नमः ।

ॐ विश्वतोवदनायै नमः ।

ॐ व्याप्तायै नमः ।

ॐ व्यापिन्यै नमः ।

ॐ व्यापकात्मिकायै नमः ।

ॐ व्यालघ्न्यै नमः ।

ॐ व्यालभूषाङ्ग्यै नमः ।

ॐ विरजायै नमः ।

ॐ वेदनायिकायै नमः ।

ॐ वेदवेदान्तसंवेद्यायै नमः ।

ॐ वेदान्तज्ञानरूपिण्यै नमः ।

ॐ विभावर्यै नमः ।

ॐ विक्रान्तायै नमः ।

ॐ विश्वामित्रायै नमः ।

ॐ विधिप्रियायै नमः ।

ॐ वरिष्ठायै नमः ।

ॐ विप्रकृष्टायै नमः ।

ॐ विप्रवर्यप्रपूजितायै नमः । 60

ॐ वेदरूपायै नमः ।

ॐ वेदमय्यै नमः ।

ॐ वेदमूर्त्यै नमः ।

ॐ वल्लभायै नमः ।

ॐ गौर्यै नमः ।

ॐ गुणवत्यै नमः ।

ॐ गोप्यायै नमः ।

ॐ गन्धर्वनगरप्रियायै नमः ।

ॐ गुणमात्रे नमः ।

ॐ गुणान्तस्थायै नमः ।

ॐ गुरुरूपायै नमः ।

ॐ गुरुप्रियायै नमः ।

ॐ गुरुविद्यायै नमः ।

ॐ गानतुष्टायै नमः ।

ॐ गायकप्रियकारिण्यै नमः ।

ॐ गायत्र्यै नमः ।

ॐ गिरीशाराध्यायै नमः ।

ॐ गिरे नमः ।

ॐ गिरीशप्रियङ्कर्यै नमः ।

ॐ गिरिज्ञायै नमः । 80

ॐ ज्ञानविद्यायै नमः ।

ॐ गिरिरूपायै नमः ।

ॐ गिरीश्वर्यै नमः ।

ॐ गीर्मात्रे नमः ।

ॐ गणसंस्तुत्यायै नमः ।

ॐ गणनीयगुणान्वितायै नमः ।

ॐ गूढरूपायै नमः ।

ॐ गुहायै नमः ।

ॐ गोप्यायै नमः ।

ॐ गोरूपायै नमः ।

ॐ गवे नमः ।

ॐ गुणात्मिकायै नमः ।

ॐ गुर्व्यै नमः ।

ॐ गुर्वम्बिकायै नमः ।

ॐ गुह्यायै नमः ।

ॐ गेयजायै नमः ।

ॐ गृहनाशिन्यै नमः ।

ॐ गृहिण्यै नमः ।

ॐ गृहदोषघ्न्यै नमः ।

ॐ गवघ्न्यै नमः । 100

ॐ गुरुवत्सलायै नमः ।

ॐ गृहात्मिकायै नमः ।

ॐ गृहाराध्यायै नमः ।

ॐ गृहबाधाविनाशिन्यै नमः ।

ॐ गङ्गायै नमः ।

ॐ गिरिसुतायै नमः ।

ॐ गम्यायै नमः ।

ॐ गजयानायै नमः ।

ॐ गुहस्तुतायै नमः ।

ॐ गरुडासनसंसेव्यायै नमः ।

ॐ गोमत्यै नमः ।

ॐ गुणशालिन्यै नमः ।

ॐ शारदायै नमः ।

ॐ शाश्वत्यै नमः ।

ॐ शैव्यै नमः ।

ॐ शाङ्कर्यै नमः ।

ॐ शङ्करात्मिकायै नमः ।

ॐ श्रियै नमः ।

ॐ शर्वाण्यै नमः ।

ॐ शतघ्न्यै नमः । 120

ॐ शरच्चन्द्रनिभाननायै नमः ।

ॐ शर्मिष्ठायै नमः ।

ॐ शमनघ्न्यै नमः ।

ॐ शतसाहस्ररूपिण्यै नमः ।

ॐ शिवायै नमः ।

ॐ शम्भुप्रियायै नमः ।

ॐ श्रद्धायै नमः ।

ॐ श्रुतिरूपायै नमः ।

ॐ श्रुतिप्रियायै नमः ।

ॐ शुचिष्मत्यै नमः ।

ॐ शर्मकर्यै नमः ।

ॐ शुद्धिदायै नमः ।

ॐ शुद्धिरूपिण्यै नमः ।

ॐ शिवायै नमः ।

ॐ शिवङ्कर्यै नमः ।

ॐ शुद्धायै नमः ।

ॐ शिवाराध्यायै नमः ।

ॐ शिवात्मिकायै नमः ।

ॐ श्रीमत्यै नमः ।

ॐ श्रीमय्यै नमः । 140

ॐ श्राव्यायै नमः ।

ॐ श्रुत्यै नमः ।

ॐ श्रवणगोचरायै नमः ।

ॐ शान्त्यै नमः ।

ॐ शान्तिकर्यै नमः ।

ॐ शान्तायै नमः ।

ॐ शान्ताचारप्रियङ्कर्यै नमः ।

ॐ शीललभ्यायै नमः ।

ॐ शीलवत्यै नमः ।

ॐ श्रीमात्रे नमः ।

ॐ शुभकारिण्यै नमः ।

ॐ शुभवाण्यै नमः ।

ॐ शुद्धविद्यायै नमः ।

ॐ शुद्धचित्तप्रपूजितायै नमः ।

ॐ श्रीकर्यै नमः ।

ॐ श्रुतपापघ्न्यै नमः ।

ॐ शुभाक्ष्यै नमः ।

ॐ शुचिवल्लभायै नमः ।

ॐ शिवेतरघ्न्यै नमः ।

ॐ शबर्यै नमः । 160 [शर्वर्यै]

ॐ श्रवणीयगुणान्वितायै नमः ।

ॐ शार्यै नमः ।

ॐ शिरीषपुष्पाभायै नमः ।

ॐ शमनिष्ठायै नमः ।

ॐ शमात्मिकायै नमः ।

ॐ शमान्वितायै नमः ।

ॐ शमाराध्यायै नमः ।

ॐ शितिकण्ठप्रपूजितायै नमः ।

ॐ शुद्ध्यै नमः ।

ॐ शुद्धिकर्यै नमः ।

ॐ श्रेष्ठायै नमः ।

ॐ श्रुतानन्तायै नमः ।

ॐ शुभावहायै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ सर्वज्ञायै नमः ।

ॐ सर्वसिद्धिप्रदायिन्यै नमः ।

ॐ सरस्वत्यै नमः ।

ॐ सावित्र्यै नमः ।

ॐ सन्ध्यायै नमः ।

ॐ सर्वेप्सितप्रदायै नमः । 180

ॐ सर्वार्तिघ्न्यै नमः ।

ॐ सर्वमय्यै नमः ।

ॐ सर्वविद्याप्रदायिन्यै नमः ।

ॐ सर्वेश्वर्यै नमः ।

ॐ सर्वपुण्यायै नमः ।

ॐ सर्गस्थित्यन्तकारिण्यै नमः ।

ॐ सर्वाराध्यायै नमः ।

ॐ सर्वमात्रे नमः ।

ॐ सर्वदेवनिषेवितायै नमः ।

ॐ सर्वैश्वर्यप्रदायै नमः ।

ॐ सत्यायै नमः ।

ॐ सत्यै नमः ।

ॐ सत्वगुणाश्रयायै नमः ।

ॐ सर्वक्रमपदाकारायै नमः ।

ॐ सर्वदोषनिषूदिन्यै नमः ।

ॐ सहस्राक्ष्यै नमः ।

ॐ सहस्रास्यायै नमः ।

ॐ सहस्रपदसंयुतायै नमः ।

ॐ सहस्रहस्तायै नमः ।

ॐ सहस्रगुणालङ्कृतविग्रहायै नमः । 200

ॐ सहस्रशीर्षायै नमः ।

ॐ सद्रूपायै नमः ।

ॐ स्वधायै नमः ।

ॐ स्वाहायै नमः ।

ॐ सुधामय्यै नमः ।

ॐ षड्ग्रन्थिभेदिन्यै नमः ।

ॐ सेव्यायै नमः ।

ॐ सर्वलोकैकपूजितायै नमः ।

ॐ स्तुत्यायै नमः ।

ॐ स्तुतिमय्यै नमः ।

ॐ साध्यायै नमः ।

ॐ सवितृप्रियकारिण्यै नमः ।

ॐ संशयच्छेदिन्यै नमः ।

ॐ साङ्ख्यवेद्यायै नमः ।

ॐ सङ्ख्यायै नमः ।

ॐ सदीश्वर्यै नमः ।

ॐ सिद्धिदायै नमः ।

ॐ सिद्धसम्पूज्यायै नमः ।

ॐ सर्वसिद्धिप्रदायिन्यै नमः ।

ॐ सर्वज्ञायै नमः । 220

ॐ सर्वशक्त्यै नमः ।

ॐ सर्वसम्पत्प्रदायिन्यै नमः ।

ॐ सर्वाऽशुभघ्न्यै नमः ।

ॐ सुखदायै नमः ।

ॐ सुखयै नमः ।

ॐ संवित्स्वरूपिण्यै नमः ।

ॐ सर्वसम्भाषण्यै नमः ।

ॐ सर्वजगत्सम्मोहिन्यै नमः ।

ॐ सर्वप्रियङ्कर्यै नमः ।

ॐ सर्वशुभदायै नमः ।

ॐ सर्वमङ्गलायै नमः ।

ॐ सर्वमन्त्रमय्यै नमः ।

ॐ सर्वतीर्थपुण्यफलप्रदायै नमः ।

ॐ सर्वपुण्यमय्यै नमः ।

ॐ सर्वव्याधिघ्न्यै नमः ।

ॐ सर्वकामदायै नमः ।

ॐ सर्वविघ्नहर्यै नमः ।

ॐ सर्ववन्दितायै नमः ।

ॐ सर्वमङ्गलायै नमः ।

ॐ सर्वमन्त्रकर्यै नमः । 240

ॐ सर्वलक्ष्म्यै नमः ।

ॐ सर्वगुणान्वितायै नमः ।

ॐ सर्वानन्दमय्यै नमः ।

ॐ सर्वज्ञानदायै नमः ।

ॐ सत्यनायिकायै नमः ।

ॐ सर्वज्ञानमय्यै नमः ।

ॐ सर्वराज्यदायै नमः ।

ॐ सर्वमुक्तिदायै नमः ।

ॐ सुप्रभायै नमः ।

ॐ सर्वदायै नमः ।

ॐ सर्वायै नमः ।

ॐ सर्वलोकवशङ्कर्यै नमः ।

ॐ सुभगायै नमः ।

ॐ सुन्दर्यै नमः ।

ॐ सिद्धायै नमः ।

ॐ सिद्धाम्बायै नमः ।

ॐ सिद्धमातृकायै नमः ।

ॐ सिद्धमात्रे नमः ।

ॐ सिद्धविद्यायै नमः ।

ॐ सिद्धेश्यै नमः । 260

ॐ सिद्धरूपिण्यै नमः ।

ॐ सुरूपिण्यै नमः ।

ॐ सुखमय्यै नमः ।

ॐ सेवकप्रियकारिण्यै नमः ।

ॐ स्वामिन्यै नमः ।

ॐ सर्वदायै नमः ।

ॐ सेव्यायै नमः ।

ॐ स्थूलसूक्ष्मापराम्बिकायै नमः ।

ॐ साररूपायै नमः ।

ॐ सरोरूपायै नमः ।

ॐ सत्यभूतायै नमः ।

ॐ समाश्रयायै नमः ।

ॐ सिताऽसितायै नमः ।

ॐ सरोजाक्ष्यै नमः ।

ॐ सरोजासनवल्लभायै नमः ।

ॐ सरोरुहाभायै नमः ।

ॐ सर्वाङ्ग्यै नमः ।

ॐ सुरेन्द्रादिप्रपूजितायै नमः ।

ॐ महादेव्यै नमः ।

ॐ महेशान्यै नमः । 280

ॐ महासारस्वतप्रदायै नमः ।

ॐ महासरस्वत्यै नमः ।

ॐ मुक्तायै नमः ।

ॐ मुक्तिदायै नमः ।

ॐ मोहनाशिन्यै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ महानन्दायै नमः ।

ॐ महामन्त्रमय्यै नमः ।

ॐ मह्यै नमः ।

ॐ महालक्ष्म्यै नमः ।

ॐ महाविद्यायै नमः ।

ॐ मात्रे नमः ।

ॐ मन्दरवासिन्यै नमः ।

ॐ मन्त्रगम्यायै नमः ।

ॐ मन्त्रमात्रे नमः ।

ॐ महामन्त्रफलप्रदायै नमः ।

ॐ महामुक्त्यै नमः

ॐ महानित्यायै नमः ।

ॐ महासिद्धिप्रदायिन्यै नमः ।

ॐ महासिद्धायै नमः । 300

ॐ महामात्रे नमः ।

ॐ महदाकारसंयुतायै नमः ।

ॐ मह्यै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ मूर्त्यै नमः ।

ॐ मोक्षदायै नमः ।

ॐ मणिभूषणायै नमः ।

ॐ मेनकायै नमः ।

ॐ मानिन्यै नमः ।

ॐ मान्यायै नमः ।

ॐ मृत्युघ्न्यै नमः ।

ॐ मेरुरूपिण्यै नमः ।

ॐ मदिराक्ष्यै नमः ।

ॐ मदावासायै नमः ।

ॐ मखरूपायै नमः ।

ॐ मखेश्वर्यै नमः ।

ॐ महामोहायै नमः ।

ॐ महामायायै नमः ।

ॐ मातॄणां मूर्ध्निसंस्थितायै नमः ।

ॐ महापुण्यायै नमः । 320

ॐ मुदावासायै नमः ।

ॐ महासम्पत्प्रदायिन्यै नमः ।

ॐ मणिपूरैकनिलयायै नमः ।

ॐ मधुरूपायै नमः ।

ॐ मदोत्कटायै नमः ।

ॐ महासूक्ष्मायै नमः ।

ॐ महाशान्तायै नमः ।

ॐ महाशान्तिप्रदायिन्यै नमः ।

ॐ मुनिस्तुतायै नमः ।

ॐ मोहहन्त्र्यै नमः ।

ॐ माधव्यै नमः ।

ॐ माधवप्रियायै नमः ।

ॐ मायै नमः ।

ॐ महादेवसंस्तुत्यायै नमः ।

ॐ महिषीगणपूजितायै नमः ।

ॐ मृष्टान्नदायै नमः ।

ॐ माहेन्द्र्यै नमः ।

ॐ महेन्द्रपददायिन्यै नमः ।

ॐ मत्यै नमः ।

ॐ मतिप्रदायै नमः । 340

ॐ मेधायै नमः ।

ॐ मर्त्यलोकनिवासिन्यै नमः ।

ॐ मुख्यायै नमः ।

ॐ महानिवासायै नमः ।

ॐ महाभाग्यजनाश्रितायै नमः ।

ॐ महिलायै नमः ।

ॐ महिमायै नमः ।

ॐ मृत्युहार्यै नमः ।

ॐ मेधाप्रदायिन्यै नमः ।

ॐ मेध्यायै नमः ।

ॐ महावेगवत्यै नमः ।

ॐ महामोक्षफलप्रदायै नमः ।

ॐ महाप्रभाभायै नमः ।

ॐ महत्यै नमः ।

ॐ महादेवप्रियङ्कर्यै नमः ।

ॐ महापोषायै नमः ।

ॐ महर्थ्यै नमः ।

ॐ मुक्ताहारविभूषणायै नमः ।

ॐ माणिक्यभूषणायै नमः ।

ॐ मन्त्रायै नमः । 360

ॐ मुख्यचन्द्रार्धशेखरायै नमः ।

ॐ मनोरूपायै नमः ।

ॐ मनश्शुद्ध्यै नमः ।

ॐ मनश्शुद्धिप्रदायिन्यै नमः ।

ॐ महाकारुण्यसम्पूर्णायै नमः ।

ॐ मनोनमनवन्दितायै नमः ।

ॐ महापातकजालघ्न्यै नमः ।

ॐ मुक्तिदायै नमः ।

ॐ मुक्तभूषणायै नमः ।

ॐ मनोन्मन्यै नमः ।

ॐ महास्थूलायै नमः ।

ॐ महाक्रतुफलप्रदायै नमः ।

ॐ महापुण्यफलप्राप्यायै नमः ।

ॐ मायात्रिपुरनाशिन्यै नमः ।

ॐ महानसायै नमः ।

ॐ महामेधायै नमः ।

ॐ महामोदायै नमः ।

ॐ महेश्वर्यै नमः ।

ॐ मालाधर्यै नमः ।

ॐ महोपायायै नमः । 380

ॐ महातीर्थफलप्रदायै नमः ।

ॐ महामङ्गलसम्पूर्णायै नमः ।

ॐ महादारिद्र्यनाशिन्यै नमः ।

ॐ महामखायै नमः ।

ॐ महामेघायै नमः ।

ॐ महाकाल्यै नमः ।

ॐ महाप्रियायै नमः ।

ॐ महाभूषायै नमः ।

ॐ महादेहायै नमः ।

ॐ महाराज्ञ्यै नमः ।

ॐ मुदालयायै नमः ।

ॐ भूरिदायै नमः ।

ॐ भाग्यदायै नमः ।

ॐ भोग्यायै नमः ।

ॐ भोग्यदायै नमः ।

ॐ भोगदायिन्यै नमः ।

ॐ भवान्यै नमः ।

ॐ भूतिदायै नमः ।

ॐ भूत्यै नमः ।

ॐ भूम्यै नमः । 400

ॐ भूमिसुनायिकायै नमः ।

ॐ भूतधात्र्यै नमः ।

ॐ भयहर्यै नमः ।

ॐ भक्तसारस्वतप्रदायै नमः ।

ॐ भुक्त्यै नमः ।

ॐ भुक्तिप्रदायै नमः ।

ॐ भोक्त्र्यै नमः ।

ॐ भक्त्यै नमः ।

ॐ भक्तिप्रदायिन्यै नमः ।

ॐ भक्तसायुज्यदायै नमः ।

ॐ भक्तस्वर्गदायै नमः ।

ॐ भक्तराज्यदायै नमः ।

ॐ भागीरथ्यै नमः ।

ॐ भवाराध्यायै नमः ।

ॐ भाग्यासज्जनपूजितायै नमः ।

ॐ भवस्तुत्यायै नमः ।

ॐ भानुमत्यै नमः ।

ॐ भवसागरतारिण्यै नमः ।

ॐ भूत्यै नमः ।

ॐ भूषायै नमः । 420

ॐ भूतेश्यै नमः ।

ॐ भाललोचनपूजितायै नमः ।

ॐ भूतायै नमः ।

ॐ भव्यायै नमः ।

ॐ भविष्यायै नमः ।

ॐ भवविद्यायै नमः ।

ॐ भवात्मिकायै नमः ।

ॐ बाधापहारिण्यै नमः ।

ॐ बन्धुरूपायै नमः ।

ॐ भुवनपूजितायै नमः ।

ॐ भवघ्न्यै नमः ।

ॐ भक्तिलभ्यायै नमः ।

ॐ भक्तरक्षणतत्परायै नमः ।

ॐ भक्तार्तिशमन्यै नमः ।

ॐ भाग्यायै नमः ।

ॐ भोगदानकृतोद्यमायै नमः ।

ॐ भुजङ्गभूषणायै नमः ।

ॐ भीमायै नमः ।

ॐ भीमाक्ष्यै नमः ।

ॐ भीमरूपिण्यै नमः । 440

ॐ भाविन्यै नमः ।

ॐ भ्रातृरूपायै नमः ।

ॐ भारत्यै नमः ।

ॐ भवनायिकायै नमः ।

ॐ भाषायै नमः ।

ॐ भाषावत्यै नमः ।

ॐ भीष्मायै नमः ।

ॐ भैरव्यै नमः ।

ॐ भैरवप्रियायै नमः ।

ॐ भूत्यै नमः ।

ॐ भासितसर्वाङ्ग्यै नमः ।

ॐ भूतिदायै नमः ।

ॐ भूतिनायिकायै नमः ।

ॐ भास्वत्यै नमः ।

ॐ भगमालायै नमः ।

ॐ भिक्षादानकृतोद्यमायै नमः ।

ॐ भिक्षुरूपायै नमः ।

ॐ भक्तिकर्यै नमः ।

ॐ भक्तलक्ष्मीप्रदायिन्यै नमः ।

ॐ भ्रान्तिघ्नायै नमः । 460

ॐ भ्रान्तिरूपायै नमः ।

ॐ भूतिदायै नमः ।

ॐ भूतिकारिण्यै नमः ।

ॐ भिक्षणीयायै नमः ।

ॐ भिक्षुमात्रे नमः ।

ॐ भाग्यवद्दृष्टिगोचरायै नमः ।

ॐ भोगवत्यै नमः ।

ॐ भोगरूपायै नमः ।

ॐ भोगमोक्षफलप्रदायै नमः ।

ॐ भोगश्रान्तायै नमः ।

ॐ भाग्यवत्यै नमः ।

ॐ भक्ताघौघविनाशिन्यै नमः ।

ॐ ब्राह्म्यै नमः ।

ॐ ब्रह्मस्वरूपायै नमः ।

ॐ बृहत्यै नमः ।

ॐ ब्रह्मवल्लभायै नमः ।

ॐ ब्रह्मदायै नमः ।

ॐ ब्रह्ममात्रे नमः ।

ॐ ब्रह्माण्यै नमः ।

ॐ ब्रह्मदायिन्यै नमः । 480

ॐ ब्रह्मेश्यै नमः ।

ॐ ब्रह्मसंस्तुत्यायै नमः ।

ॐ ब्रह्मवेद्यायै नमः ।

ॐ बुधप्रियायै नमः ।

ॐ बालेन्दुशेखरायै नमः ।

ॐ बालायै नमः ।

ॐ बलिपूजाकरप्रियायै नमः ।

ॐ बलदायै नमः ।

ॐ बिन्दुरूपायै नमः ।

ॐ बालसूर्यसमप्रभायै नमः ।

ॐ ब्रह्मरूपायै नमः ।

ॐ ब्रह्ममय्यै नमः ।

ॐ ब्रध्नमण्डलमध्यगायै नमः ।

ॐ ब्रह्माण्यै नमः ।

ॐ बुद्धिदायै नमः ।

ॐ बुद्ध्यै नमः ।

ॐ बुद्धिरूपायै नमः ।

ॐ बुधेश्वर्यै नमः ।

ॐ बन्धक्षयकर्यै नमः ।

ॐ बाधानाशिन्यै नमः । 500

ॐ बन्धुरूपिण्यै नमः ।

ॐ बिन्द्वालयायै नमः ।

ॐ बिन्दुभूषायै नमः ।

ॐ बिन्दुनादसमन्वितायै नमः ।

ॐ बीजरूपायै नमः ।

ॐ बीजमात्रे नमः ।

ॐ ब्रह्मण्यायै नमः ।

ॐ ब्रह्मकारिण्यै नमः ।

ॐ बहुरूपायै नमः ।

ॐ बलवत्यै नमः ।

ॐ ब्रह्मज्ञायै नमः ।

ॐ ब्रह्मचारिण्यै नमः ।

ॐ ब्रह्मस्तुत्यायै नमः ।

ॐ ब्रह्मविद्यायै नमः ।

ॐ ब्रह्माण्डाधिपवल्लभायै नमः ।

ॐ ब्रह्मेशविष्णुरूपायै नमः ।

ॐ ब्रह्मविष्ण्वीशसंस्थितायै नमः ।

ॐ बुद्धिरूपायै नमः ।

ॐ बुधेशान्यै नमः ।

ॐ बन्ध्यै नमः । 520

ॐ बन्धविमोचन्यै नमः ।

ॐ अक्षमालायै नमः ।

ॐ अक्षराकारायै नमः ।

ॐ अक्षरायै नमः ।

ॐ अक्षरफलप्रदायै नमः ।

ॐ अनन्तायै नमः ।

ॐ आनन्दसुखदायै नमः ।

ॐ अनन्तचन्द्रनिभाननायै नमः ।

ॐ अनन्तमहिमायै नमः ।

ॐ अघोरायै नमः ।

ॐ अनन्तगम्भीरसम्मितायै नमः ।

ॐ अदृष्टायै नमः ।

ॐ अदृष्टदायै नमः ।

ॐ अनन्तायै नमः ।

ॐ अदृष्टभाग्यफलप्रदायै नमः ।

ॐ अरुन्धत्यै नमः ।

ॐ अव्ययीनाथायै नमः ।

ॐ अनेकसद्गुणसंयुतायै नमः ।

ॐ अनेकभूषणायै नमः ।

ॐ अदृश्यायै नमः । 540

ॐ अनेकलेखनिषेवितायै नमः ।

ॐ अनन्तायै नमः ।

ॐ अनन्तसुखदायै नमः ।

ॐ अघोरायै नमः ।

ॐ अघोरस्वरूपिण्यै नमः ।

ॐ अशेषदेवतारूपायै नमः ।

ॐ अमृतरूपायै नमः ।

ॐ अमृतेश्वर्यै नमः ।

ॐ अनवद्यायै नमः ।

ॐ अनेकहस्तायै नमः ।

ॐ अनेकमाणिक्यभूषणायै नमः ।

ॐ अनेकविघ्नसंहर्त्र्यै नमः ।

ॐ अनेकाभरणान्वितायै नमः ।

ॐ अविद्याज्ञानसंहर्त्र्यै नमः ।

ॐ अविद्याजालनाशिन्यै नमः ।

ॐ अभिरूपायै नमः ।

ॐ अनवद्याङ्ग्यै नमः ।

ॐ अप्रतर्क्यगतिप्रदायै नमः ।

ॐ अकलङ्करूपिण्यै नमः ।

ॐ अनुग्रहपरायणायै नमः । 560

ॐ अम्बरस्थायै नमः ।

ॐ अम्बरमयायै नमः ।

ॐ अम्बरमालायै नमः ।

ॐ अम्बुजेक्षणायै नमः ।

ॐ अम्बिकायै नमः ।

ॐ अब्जकरायै नमः ।

ॐ अब्जस्थायै नमः ।

ॐ अंशुमत्यै नमः ।

ॐ अंशुशतान्वितायै नमः ।

ॐ अम्बुजायै नमः ।

ॐ अनवरायै नमः ।

ॐ अखण्डायै नमः ।

ॐ अम्बुजासनमहाप्रियायै नमः ।

ॐ अजरायै नमः ।

ॐ अमरसंसेव्यायै नमः ।

ॐ अजरसेवितपद्युगायै नमः ।

ॐ अतुलार्थप्रदायै नमः ।

ॐ अर्थैक्यायै नमः ।

ॐ अत्युदारायै नमः ।

ॐ अभयान्वितायै नमः । 580

ॐ अनाथवत्सलायै नमः ।

ॐ अनन्तप्रियायै नमः ।

ॐ अनन्तेप्सितप्रदायै नमः ।

ॐ अम्बुजाक्ष्यै नमः ।

ॐ अम्बुरूपायै नमः ।

ॐ अम्बुजातोद्भवमहाप्रियायै नमः ।

ॐ अखण्डायै नमः ।

ॐ अमरस्तुत्यायै नमः ।

ॐ अमरनायकपूजितायै नमः ।

ॐ अजेयायै नमः ।

ॐ अजसङ्काशायै नमः ।

ॐ अज्ञाननाशिन्यै नमः ।

ॐ अभीष्टदायै नमः ।

ॐ अक्तायै नमः ।

ॐ अघनेनायै नमः ।

ॐ अस्त्रेश्यै नमः ।

ॐ अलक्ष्मीनाशिन्यै नमः ।

ॐ अनन्तसारायै नमः ।

ॐ अनन्तश्रियै नमः ।

ॐ अनन्तविधिपूजितायै नमः । 600

ॐ अभीष्टायै नमः ।

ॐ अमर्त्यसम्पूज्यायै नमः ।

ॐ अस्तोदयविवर्जितायै नमः ।

ॐ आस्तिकस्वान्तनिलयायै नमः ।

ॐ अस्त्ररूपायै नमः ।

ॐ अस्त्रवत्यै नमः ।

ॐ अस्खलत्यै नमः ।

ॐ अस्खलद्रूपायै नमः ।

ॐ अस्खलद्विद्याप्रदायिन्यै नमः ।

ॐ अस्खलत्सिद्धिदायै नमः ।

ॐ आनन्दायै नमः ।

ॐ अम्बुजातायै नमः ।

ॐ अमरनायिकायै नमः ।

ॐ अमेयायै नमः ।

ॐ अशेषपापघ्न्यै नमः ।

ॐ अक्षयसारस्वतप्रदायै नमः ।

ॐ जयायै नमः ।

ॐ जयन्त्यै नमः ।

ॐ जयदायै नमः ।

ॐ जन्मकर्मविवर्जितायै नमः । 620

ॐ जगत्प्रियायै नमः ।

ॐ जगन्मात्रे नमः ।

ॐ जगदीश्वरवल्लभायै नमः ।

ॐ जात्यै नमः ।

ॐ जयायै नमः ।

ॐ जितामित्रायै नमः ।

ॐ जप्यायै नमः ।

ॐ जपनकारिण्यै नमः ।

ॐ जीवन्यै नमः ।

ॐ जीवनिलयायै नमः ।

ॐ जीवाख्यायै नमः ।

ॐ जीवधारिण्यै नमः ।

ॐ जाह्नव्यै नमः ।

ॐ ज्यायै नमः ।

ॐ जपवत्यै नमः ।

ॐ जातिरूपायै नमः ।

ॐ जयप्रदायै नमः ।

ॐ जनार्दनप्रियकर्यै नमः ।

ॐ जोषनीयायै नमः ।

ॐ जगत्स्थितायै नमः । 640

ॐ जगज्ज्येष्ठायै नमः ।

ॐ जगन्मायायै नमः ।

ॐ जीवनत्राणकारिण्यै नमः ।

ॐ जीवातुलतिकायै नमः ।

ॐ जीवजन्म्यै नमः ।

ॐ जन्मनिबर्हण्यै नमः ।

ॐ जाड्यविध्वंसनकर्यै नमः ।

ॐ जगद्योन्यै नमः ।

ॐ जयात्मिकायै नमः ।

ॐ जगदानन्दजनन्यै नमः ।

ॐ जम्ब्व्यै नमः ।

ॐ जलजेक्षणायै नमः ।

ॐ जयन्त्यै नमः ।

ॐ जङ्गपूगघ्न्यै नमः ।

ॐ जनितज्ञानविग्रहायै नमः ।

ॐ जटायै नमः ।

ॐ जटावत्यै नमः ।

ॐ जप्यायै नमः ।

ॐ जपकर्तृप्रियङ्कर्यै नमः ।

ॐ जपकृत्पापसंहर्त्र्यै नमः । 660

ॐ जपकृत्फलदायिन्यै नमः ।

ॐ जपापुष्पसमप्रख्यायै नमः ।

ॐ जपाकुसुमधारिण्यै नमः ।

ॐ जनन्यै नमः ।

ॐ जन्मरहितायै नमः ।

ॐ ज्योतिर्वृत्यभिदायिन्यै नमः ।

ॐ जटाजूटनचन्द्रार्धायै नमः ।

ॐ जगत्सृष्टिकर्यै नमः ।

ॐ जगत्त्राणकर्यै नमः ।

ॐ जाड्यध्वंसकर्त्र्यै नमः ।

ॐ जयेश्वर्यै नमः ।

ॐ जगद्बीजायै नमः ।

ॐ जयावासायै नमः ।

ॐ जन्मभुवे नमः ।

ॐ जन्मनाशिन्यै नमः ।

ॐ जन्मान्त्यरहितायै नमः ।

ॐ जैत्र्यै नमः ।

ॐ जगद्योन्यै नमः ।

ॐ जपात्मिकायै नमः ।

ॐ जयलक्षणसम्पूर्णायै नमः । 680

ॐ जयदानकृतोद्यमायै नमः ।

ॐ जम्भराद्यादिसंस्तुत्यायै नमः ।

ॐ जम्भारिफलदायिन्यै नमः ।

ॐ जगत्त्रयहितायै नमः ।

ॐ ज्येष्ठायै नमः ।

ॐ जगत्त्रयवशङ्कर्यै नमः ।

ॐ जगत्त्रयाम्बायै नमः ।

ॐ जगत्यै नमः ।

ॐ ज्वालायै नमः ।

ॐ ज्वालितलोचनायै नमः ।

ॐ ज्वालिन्यै नमः ।

ॐ ज्वलनाभासायै नमः ।

ॐ ज्वलन्त्यै नमः ।

ॐ ज्वलनात्मिकायै नमः ।

ॐ जितारातिसुरस्तुत्यायै नमः ।

ॐ जितक्रोधायै नमः ।

ॐ जितेन्द्रियायै नमः ।

ॐ जरामरणशून्यायै नमः ।

ॐ जनित्र्यै नमः ।

ॐ जन्मनाशिन्यै नमः । 700

ॐ जलजाभायै नमः ।

ॐ जलमय्यै नमः ।

ॐ जलजासनवल्लभायै नमः ।

ॐ जलजस्थायै नमः ।

ॐ जपाराध्यायै नमः ।

ॐ जनमङ्गलकारिण्यै नमः ।

ॐ कामिन्यै नमः ।

ॐ कामरूपायै नमः ।

ॐ काम्यायै नमः ।

ॐ काम्यप्रदायिन्यै नमः ।

ॐ कमौल्यै नमः ।

ॐ कामदायै नमः ।

ॐ कर्त्र्यै नमः ।

ॐ क्रतुकर्मफलप्रदायै नमः ।

ॐ कृतघ्नघ्न्यै नमः ।

ॐ क्रियारूपायै नमः ।

ॐ कार्यकारणरूपिण्यै नमः ।

ॐ कञ्जाक्ष्यै नमः ।

ॐ करुणारूपायै नमः ।

ॐ केवलामरसेवितायै नमः । 720

ॐ कल्याणकारिण्यै नमः ।

ॐ कान्तायै नमः ।

ॐ कान्तिदायै नमः ।

ॐ कान्तिरूपिण्यै नमः ।

ॐ कमलायै नमः ।

ॐ कमलावासायै नमः ।

ॐ कमलोत्पलमालिन्यै नमः ।

ॐ कुमुद्वत्यै नमः ।

ॐ कल्याण्यै नमः ।

ॐ कान्त्यै नमः ।

ॐ कामेशवल्लभायै नमः ।

ॐ कामेश्वर्यै नमः ।

ॐ कमलिन्यै नमः ।

ॐ कामदायै नमः ।

ॐ कामबन्धिन्यै नमः ।

ॐ कामधेनवे नमः ।

ॐ काञ्चनाक्ष्यै नमः ।

ॐ काञ्चनाभायै नमः ।

ॐ कलानिधये नमः ।

ॐ क्रियायै नमः । 740

ॐ कीर्तिकर्यै नमः ।

ॐ कीर्त्यै नमः ।

ॐ क्रतुश्रेष्ठायै नमः ।

ॐ कृतेश्वर्यै नमः ।

ॐ क्रतुसर्वक्रियास्तुत्यायै नमः ।

ॐ क्रतुकृत्प्रियकारिण्यै नमः ।

ॐ क्लेशनाशकर्यै नमः ।

ॐ कर्त्र्यै नमः ।

ॐ कर्मदायै नमः ।

ॐ कर्मबन्धिन्यै नमः ।

ॐ कर्मबन्धहर्यै नमः ।

ॐ कृष्टायै नमः ।

ॐ क्लमघ्न्यै नमः ।

ॐ कञ्जलोचनायै नमः ।

ॐ कन्दर्पजनन्यै नमः ।

ॐ कान्तायै नमः ।

ॐ करुणायै नमः ।

ॐ करुणावत्यै नमः ।

ॐ क्लीङ्कारिण्यै नमः ।

ॐ कृपाकारायै नमः । 760

ॐ कृपासिन्धवे नमः ।

ॐ कृपावत्यै नमः ।

ॐ करुणार्द्रायै नमः ।

ॐ कीर्तिकर्यै नमः ।

ॐ कल्मषघ्न्यै नमः ।

ॐ क्रियाकर्यै नमः ।

ॐ क्रियाशक्त्यै नमः ।

ॐ कामरूपायै नमः ।

ॐ कमलोत्पलगन्धिन्यै नमः ।

ॐ कलायै नमः ।

ॐ कलावत्यै नमः ।

ॐ कूर्म्यै नमः ।

ॐ कूटस्थायै नमः ।

ॐ कञ्जसंस्थितायै नमः ।

ॐ कालिकायै नमः ।

ॐ कल्मषघ्न्यै नमः ।

ॐ कमनीयजटान्वितायै नमः ।

ॐ करपद्मायै नमः ।

ॐ कराभीष्टप्रदायै नमः ।

ॐ क्रतुफलप्रदायै नमः । 780

ॐ कौशिक्यै नमः ।

ॐ कोशदायै नमः ।

ॐ काव्यायै नमः ।

ॐ कर्त्र्यै नमः ।

ॐ कोशेश्वर्यै नमः ।

ॐ कृशायै नमः ।

ॐ कूर्मयानायै नमः ।

ॐ कल्पलतायै नमः ।

ॐ कालकूटविनाशिन्यै नमः ।

ॐ कल्पोद्यानवत्यै नमः ।

ॐ कल्पवनस्थायै नमः ।

ॐ कल्पकारिण्यै नमः ।

ॐ कदम्बकुसुमाभासायै नमः ।

ॐ कदम्बकुसुमप्रियायै नमः ।

ॐ कदम्बोद्यानमध्यस्थायै नमः ।

ॐ कीर्तिदायै नमः ।

ॐ कीर्तिभूषणायै नमः ।

ॐ कुलमात्रे नमः ।

ॐ कुलावासायै नमः ।

ॐ कुलाचारप्रियङ्कर्यै नमः । 800

ॐ कुलनाथायै नमः ।

ॐ कामकलायै नमः ।

ॐ कलानाथायै नमः ।

ॐ कलेश्वर्यै नमः ।

ॐ कुन्दमन्दारपुष्पाभायै नमः ।

ॐ कपर्दस्थितचन्द्रिकायै नमः ।

ॐ कवित्वदायै नमः ।

ॐ काम्यमात्रे नमः ।

ॐ कविमात्रे नमः ।

ॐ कलाप्रदायै नमः ।

ॐ तरुण्यै नमः ।

ॐ तरुणीतातायै नमः ।

ॐ ताराधिपसमाननायै नमः ।

ॐ तृप्तये नमः ।

ॐ तृप्तिप्रदायै नमः ।

ॐ तर्क्यायै नमः ।

ॐ तपन्यै नमः ।

ॐ तापिन्यै नमः ।

ॐ तर्पण्यै नमः ।

ॐ तीर्थरूपायै नमः । 820

ॐ त्रिपदायै नमः ।

ॐ त्रिदशेश्वर्यै नमः ।

ॐ त्रिदिवेश्यै नमः ।

ॐ त्रिजनन्यै नमः ।

ॐ त्रिमात्रे नमः ।

ॐ त्र्यम्बकेश्वर्यै नमः ।

ॐ त्रिपुरायै नमः ।

ॐ त्रिपुरेशान्यै नमः ।

ॐ त्र्यम्बकायै नमः ।

ॐ त्रिपुराम्बिकायै नमः ।

ॐ त्रिपुरश्रियै नमः ।

ॐ त्रयीरूपायै नमः ।

ॐ त्रयीवेद्यायै नमः ।

ॐ त्रयीश्वर्यै नमः ।

ॐ त्रय्यन्तवेदिन्यै नमः ।

ॐ ताम्रायै नमः ।

ॐ तापत्रितयहारिण्यै नमः ।

ॐ तमालसदृश्यै नमः ।

ॐ त्रात्रे नमः ।

ॐ तरुणादित्यसन्निभायै नमः । 840

ॐ त्रैलोक्यव्यापिन्यै नमः ।

ॐ तृप्तायै नमः ।

ॐ तृप्तिकृते नमः ।

ॐ तत्त्वरूपिण्यै नमः ।

ॐ तुर्यायै नमः ।

ॐ त्रैलोक्यसंस्तुत्यायै नमः ।

ॐ त्रिगुणायै नमः ।

ॐ त्रिगुणेश्वर्यै नमः ।

ॐ त्रिपुरघ्न्यै नमः ।

ॐ त्रिमात्रे नमः ।

ॐ त्र्यम्बकायै नमः ।

ॐ त्रिगुणान्वितायै नमः ।

ॐ तृष्णाच्छेदकर्यै नमः ।

ॐ तृप्तायै नमः ।

ॐ तीक्ष्णायै नमः ।

ॐ तीक्ष्णस्वरूपिण्यै नमः ।

ॐ तुलायै नमः ।

ॐ तुलादिरहितायै नमः ।

ॐ तत्तद्ब्रह्मस्वरूपिण्यै नमः ।

ॐ त्राणकर्त्र्यै नमः । 860

ॐ त्रिपापघ्न्यै नमः ।

ॐ त्रिदशायै नमः ।

ॐ त्रिदशान्वितायै नमः ।

ॐ तथ्यायै नमः ।

ॐ त्रिशक्त्यै नमः ।

ॐ त्रिपदायै नमः ।

ॐ तुर्यायै नमः ।

ॐ त्रैलोक्यसुन्दर्यै नमः ।

ॐ तेजस्कर्यै नमः ।

ॐ त्रिमूर्त्याद्यायै नमः ।

ॐ तेजोरूपायै नमः ।

ॐ त्रिधामतायै नमः ।

ॐ त्रिचक्रकर्त्र्यै नमः ।

ॐ त्रिभगायै नमः ।

ॐ तुर्यातीतफलप्रदायै नमः ।

ॐ तेजस्विन्यै नमः ।

ॐ तापहार्यै नमः ।

ॐ तापोपप्लवनाशिन्यै नमः ।

ॐ तेजोगर्भायै नमः ।

ॐ तपस्सारायै नमः । 880

ॐ त्रिपुरारिप्रियङ्कर्यै नमः ।

ॐ तन्व्यै नमः ।

ॐ तापससन्तुष्टायै नमः ।

ॐ तपनाङ्गजभीतिनुते नमः ।

ॐ त्रिलोचनायै नमः ।

ॐ त्रिमार्गायै नमः ।

ॐ तृतीयायै नमः ।

ॐ त्रिदशस्तुतायै नमः ।

ॐ त्रिसुन्दर्यै नमः ।

ॐ त्रिपथगायै नमः ।

ॐ तुरीयपददायिन्यै नमः ।

ॐ शुभायै नमः ।

ॐ शुभावत्यै नमः ।

ॐ शान्तायै नमः ।

ॐ शान्तिदायै नमः ।

ॐ शुभदायिन्यै नमः ।

ॐ शीतलायै नमः ।

ॐ शूलिन्यै नमः ।

ॐ शीतायै नमः ।

ॐ श्रीमत्यै नमः । 900

ॐ शुभान्वितायै नमः ।

ॐ योगसिद्धिप्रदायै नमः ।

ॐ योग्यायै नमः ।

ॐ यज्ञेनपरिपूरितायै नमः ।

ॐ यज्ञायै नमः ।

ॐ यज्ञमय्यै नमः ।

ॐ यक्ष्यै नमः ।

ॐ यक्षिण्यै नमः ।

ॐ यक्षिवल्लभायै नमः ।

ॐ यज्ञप्रियायै नमः ।

ॐ यज्ञपूज्यायै नमः ।

ॐ यज्ञतुष्टायै नमः ।

ॐ यमस्तुतायै नमः ।

ॐ यामिनीयप्रभायै नमः ।

ॐ याम्यायै नमः ।

ॐ यजनीयायै नमः ।

ॐ यशस्कर्यै नमः ।

ॐ यज्ञकर्त्र्यै नमः ।

ॐ यज्ञरूपायै नमः ।

ॐ यशोदायै नमः । 920

ॐ यज्ञसंस्तुतायै नमः ।

ॐ यज्ञेश्यै नमः ।

ॐ यज्ञफलदायै नमः ।

ॐ योगयोन्यै नमः ।

ॐ यजुस्स्तुतायै नमः ।

ॐ यमिसेव्यायै नमः ।

ॐ यमाराध्यायै नमः ।

ॐ यमिपूज्यायै नमः ।

ॐ यमीश्वर्यै नमः ।

ॐ योगिन्यै नमः ।

ॐ योगरूपायै नमः ।

ॐ योगकर्तृप्रियङ्कर्यै नमः ।

ॐ योगयुक्तायै नमः ।

ॐ योगमय्यै नमः ।

ॐ योगयोगीश्वराम्बिकायै नमः ।

ॐ योगज्ञानमय्यै नमः ।

ॐ योनये नमः ।

ॐ यमाद्यष्टाङ्गयोगतायै नमः ।

ॐ यन्त्रिताघौघसंहारायै नमः ।

ॐ यमलोकनिवारिण्यै नमः । 940

ॐ यष्टिव्यष्टीशसंस्तुत्यायै नमः ।

ॐ यमाद्यष्टाङ्गयोगयुजे नमः

ॐ योगीश्वर्यै नमः ।

ॐ योगमात्रे नमः ।

ॐ योगसिद्धायै नमः ।

ॐ योगदायै नमः ।

ॐ योगारूढायै नमः ।

ॐ योगमय्यै नमः ।

ॐ योगरूपायै नमः ।

ॐ यवीयस्यै नमः ।

ॐ यन्त्ररूपायै नमः ।

ॐ यन्त्रस्थायै नमः ।

ॐ यन्त्रपूज्यायै नमः ।

ॐ यन्त्रिकायै नमः ।

ॐ युगकर्त्र्यै नमः ।

ॐ युगमय्यै नमः ।

ॐ युगधर्मविवर्जितायै नमः ।

ॐ यमुनायै नमः ।

ॐ यामिन्यै नमः ।

ॐ याम्यायै नमः । 960

ॐ यमुनाजलमध्यगायै नमः ।

ॐ यातायातप्रशमन्यै नमः ।

ॐ यातनानान्निकृन्तन्यै नमः ।

ॐ योगावासायै नमः ।

ॐ योगिवन्द्यायै नमः ।

ॐ यत्तच्छब्दस्वरूपिण्यै नमः ।

ॐ योगक्षेममय्यै नमः ।

ॐ यन्त्रायै नमः ।

ॐ यावदक्षरमातृकायै नमः ।

ॐ यावत्पदमय्यै नमः ।

ॐ यावच्छब्दरूपायै नमः ।

ॐ यथेश्वर्यै नमः ।

ॐ यत्तदीयायै नमः ।

ॐ यक्षवन्द्यायै नमः ।

ॐ यद्विद्यायै नमः ।

ॐ यतिसंस्तुतायै नमः ।

ॐ यावद्विद्यामय्यै नमः ।

ॐ यावद्विद्याबृन्दसुवन्दितायै नमः ।

ॐ योगिहृत्पद्मनिलयायै नमः ।

ॐ योगिवर्यप्रियङ्कर्यै नमः । 980

ॐ योगिवन्द्यायै नमः ।

ॐ योगिमात्रे नमः ।

ॐ योगीशफलदायिन्यै नमः ।

ॐ यक्षवन्द्यायै नमः ।

ॐ यक्षपूज्यायै नमः ।

ॐ यक्षराजसुपूजितायै नमः ।

ॐ यज्ञरूपायै नमः ।

ॐ यज्ञतुष्टायै नमः ।

ॐ यायजूकस्वरूपिण्यै नमः ।

ॐ यन्त्राराध्यायै नमः ।

ॐ यन्त्रमध्यायै नमः ।

ॐ यन्त्रकर्तृप्रियङ्कर्यै नमः ।

ॐ यन्त्रारूढायै नमः ।

ॐ यन्त्रपूज्यायै नमः ।

ॐ योगिध्यानपरायणायै नमः ।

ॐ यजनीयायै नमः ।

ॐ यमस्तुत्यायै नमः ।

ॐ योगयुक्तायै नमः ।

ॐ यशस्कर्यै नमः ।

ॐ योगबद्धायै नमः । 1000

ॐ यतिस्तुत्यायै नमः ।

ॐ योगज्ञायै नमः ।

ॐ योगनायक्यै नमः ।

ॐ योगिज्ञानप्रदायै नमः ।

ॐ यक्ष्यै नमः ।

ॐ यमबाधाविनाशिन्यै नमः ।

ॐ योगिकाम्यप्रदात्र्यै नमः ।

ॐ योगिमोक्षप्रदायिन्यै नमः । 1008

इति श्री सरस्वती सहस्रनामावली ॥

सरस्वती सहस्र नामावलि | (Sarasvati Sahasra Namavali) Lyrics | Vedic Tithi