Sarasvati Kavacham
Sarasvati Kavacham
सरस्वती कवचम्
श्लोक 1
(ब्रह्मवैवर्त महापुराणान्तर्गतं)
भृगुरुवाच ।
ब्रह्मन्ब्रह्मविदांश्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ॥ 60
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयाममन्त्राणां समूहो यत्र संयुतः
श्लोक 2
ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्
॥ 61 ॥
श्लोक 3
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले
॥ 62 ॥
श्लोक 4
अतीव गोपनीयञ्च कल्पवृक्षसमं परम् ।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम्
॥ 63 ॥
श्लोक 5
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः
॥ 64 ॥
श्लोक 6
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिकी मुनिः ।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजिताः
॥ 65 ॥
श्लोक 7
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम्
॥ 66 ॥
श्लोक 8
धृत्वा वेदविभागञ्च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम्
॥ 67 ॥
श्लोक 9
शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः
॥ 68 ॥
श्लोक 10
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।
जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्वपूजितः
॥ 69 ॥
श्लोक 11
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः
॥ 70 ॥
श्लोक 12
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः
॥ 71 ॥
श्लोक 13
( कवचं )
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु
॥ 72 ॥
श्लोक 14
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु
॥ 73 ॥
श्लोक 15
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदाऽवतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोंष्ठ सदाऽवतु
॥ 74 ॥
श्लोक 16
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु
॥ 75 ॥
श्लोक 17
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु
॥ 76 ॥
श्लोक 18
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु
॥ 77 ॥
श्लोक 19
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।
ॐ रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु
॥ 78 ॥
श्लोक 20
ॐ सर्वकण्ठवासिन्यै स्वाहा प्रच्यां सदाऽवतु ।
ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु
॥ 79 ॥
श्लोक 21
ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु
॥ 80 ॥
श्लोक 22
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां मे सदाऽवतु ।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु
॥ 81 ॥
श्लोक 23
ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु
॥ 82 ॥
श्लोक 24
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु
॥ 83 ॥
श्लोक 25
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदावतु ।
ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु
॥ 84 ॥
श्लोक 26
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मारूपकम्
॥ 85 ॥
श्लोक 27
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित्
॥ 86 ॥
श्लोक 28
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः
॥ 87 ॥
श्लोक 29
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्सिद्धकवचो बृहस्पति समो भवेत्
॥ 88 ॥
श्लोक 30
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः
॥ 89 ॥
श्लोक 31
इदं ते काण्वशाखोक्तं कथितं कवचं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा
॥ 90 ॥
श्लोक 32
इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।
Related Scriptures
सरस्वती सहस्र नामावलि
1000 verses
1000 Names of Goddess Saraswati
1000 verses
108 Names of Goddess Saraswati
108 verses
सरस्वती अष्टोत्तर शत नामावलि
108 verses
Jai Shri Sakal Buddhi Balrasi
0 verses
सरस्वती द्वादश नाम स्तोत्रम्
5 verses
