Stotram - Sacred Scripture

Ganesha Mangalashtakam

Ganesha Mangalashtakam

Stotram
Ganesha
8 Verses
110%

गणेश मङ्गलाष्टकम्

श्लोक 1

गजाननाय गाङ्गेयसहजाय सदात्मने ।

गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम्

श्लोक 2

नागयज्ञोपवीताय नतविघ्नविनाशिने ।

नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम्

॥ 1 ॥

श्लोक 3

इभवक्त्राय चेन्द्रादि वन्दिताय चिदात्मने ।

ईशानप्रेमपात्राय नायकायास्तु मङ्गलम्

॥ 2 ॥

श्लोक 4

सुमुखाय सुशुण्डाग्रात्-क्षिप्तामृतघटाय च ।

सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम्

॥ 3 ॥

श्लोक 5

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।

चरणावनतानन्ततारणायास्तु मङ्गलम्

॥ 4 ॥

श्लोक 6

वक्रतुण्डाय वटवे वन्याय वरदाय च ।

विरूपाक्ष सुतायास्तु मङ्गलम्

॥ 5 ॥

श्लोक 7

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।

प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम्

॥ 6 ॥

श्लोक 8

मङ्गलं गणनाथाय मङ्गलं हरसूनने ।

मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम्

॥ 7 ॥

श्लोक 9

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात् ।

पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥

॥ इति श्री गणेश मङ्गलाष्टकम् ॥