Kavacham - Sacred Scripture

Ganesha Kavacham

Ganesha Kavacham

Kavacham
Ganesha
27 Verses
110%

गणेश कवचम्

श्लोक 1

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम

श्लोक 2

दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।

अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि

॥ 1 ॥

श्लोक 3

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे

त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई

द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये

तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा

॥ 2 ॥

श्लोक 4

विनायक श्शिखाम्पातु परमात्मा परात्परः ।

अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः

॥ 3 ॥

श्लोक 5

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।

नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ

॥ 4 ॥

श्लोक 6

जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।

वाचं विनायकः पातु दन्तान्​ रक्षतु दुर्मुखः

॥ 5 ॥

श्लोक 7

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।

गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः

॥ 6 ॥

श्लोक 8

स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरम्बो जठरं महान्

॥ 7 ॥

श्लोक 9

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।

लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः

॥ 8 ॥

श्लोक 10

गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् ।

एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु

॥ 9 ॥

श्लोक 11

क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।

अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः

॥ 10 ॥

श्लोक 12

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु ।

अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु

॥ 11 ॥

श्लोक 13

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः

॥ 12 ॥

श्लोक 14

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।

प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः

॥ 13 ॥

श्लोक 15

कौबेर्यां निधिपः पायादीशान्याविशनन्दनः ।

दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत्

॥ 14 ॥

श्लोक 16

राक्षसासुर बेताल ग्रह भूत पिशाचतः ।

पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः

॥ 15 ॥

श्लोक 17

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई

वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन्

॥ 16 ॥

श्लोक 18

सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।

कपिलो जानुकं पातु गजाश्वान् विकटोवतु

॥ 17 ॥

श्लोक 19

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।

न भयं जायते तस्य यक्ष रक्षः पिशाचतः

॥ 18 ॥

श्लोक 20

त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।

यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्

॥ 19 ॥

श्लोक 21

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।

मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि

॥ 20 ॥

श्लोक 22

सप्तवारं जपेदेतद्दनानामेकविंशतिः ।

तत्तत्फलमवाप्नोति साधको नात्र संशयः

॥ 21 ॥

श्लोक 23

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।

कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत्

॥ 22 ॥

श्लोक 24

राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत्

॥ 23 ॥

श्लोक 25

इदं गणेशकवचं कश्यपेन सविरितम् ।

मुद्गलाय च ते नाथ माण्डव्याय महर्षये

॥ 24 ॥

श्लोक 26

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।

न देयं भक्तिहीनाय देयं श्रद्धावते शुभम्

॥ 25 ॥

श्लोक 27

अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।

राक्षसासुर बेताल दैत्य दानव सम्भवाः

॥ 26 ॥

श्लोक 28

॥ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ॥